________________
चन्द्रप्रमस्वामि
प्रथम: परिच्छेदः
चरित्रम्
अजापुत्रकथान्तर्गता आरामनन्दनकथा।
इत्युच्चैापिनों श्रुत्वा, विद्याधर्योर्वरूथिनीम् । आययुः कौतुकाद्राजा, परेऽपि स्वजनादयः ॥ ५३१॥ ततश्चारामपुत्रोऽपि, पद्मावतीसतीव्रतात । शीतीभूताग्निपुञ्जायाश्चिताया निरगावहिः ॥ ५३२ ॥ जोचक्रेऽथ स राजानं, तमाश्लिक्षन्नृपो मुदा । अपृच्छच्च स सक्षेपावृत्तान्तं कञ्चुकादिकम् ।। ५३३॥ आनन्दसम्पदद्वैतप्रादुर्भूताश्रुमोदितौ । व्यात्तबाहू मुदाश्लिष्य, ननाम पितरौ पदोः ॥ ५३४ ॥ आश्लिष्याश्लिष्य पितृभ्यां, हर्षाश्रुमोचनच्छलात् । पुत्रादर्शनदुःखाय, ददे मूलाज्जलाञ्जलिः ॥ ५३५॥ यतःपुत्रागतिमुदामग्रे, मुदोऽन्या: पदपांशवः । पुत्रादर्शनदुःखेन, मृतो दशरथोऽपि हि ॥ ५३६ ॥ कैश्चिदालापितः स्नेहाल , कांश्चित् स आलपन् स्वयम् । नतः कैश्चिननामाऽथ, कांश्चिदारामनन्दनः ॥ ५३७ ॥ एवं पद्मावती लज्जानीरङ्गीविवृताऽनना । गुरून दूरामनामेषा, भूतलन्यस्तमस्तका ॥ ५३८ ॥ पुत्रान् प्राप्नुहि नीरोगान् , गुणिनः सम्पदावृतान् । वन्द्या भवस्व शीलेनेत्याशिषं गुरवो ददुः ॥५३६ ॥ दृष्टया दृष्टासि वत्से ! त्वं, भूयोऽपि शुभकर्मभिः । अभिमृत्यति सानन्दा, दृढं माताऽऽलिलिङ्ग ताम् ॥ ५४०॥ मुहुरस्याः प्रमोदाश्रु, निर्माज्य निजपाणिना । चुचुम्बास्यं सुतेभ्यो यन्मातुः पुध्योऽधिकं प्रियाः ॥ ५४१ ॥ ततश्च स्वसखीलोकमाश्लिष्य वक्षसा दृढम् । पद्मावती सुधास्नातेवाभूत् स्नेहः सखीषु यत् ॥ ५४२ ॥ विद्याधर्यावथ ज्ञात्वा, वृत्तान्तं कचुकस्य तत । कञ्चुकं प्रति निवन्धं, मुक्त्वा विस्मयमीयितुः॥ ५४३ ॥ अहो ! प्रीतिर्मियो यूनोरेतयोर्यत् परस्परम् । आशङ्कयामङ्गलं वह्नौ, पेततुः प्रेम. यत्प्रभुः ॥ ५४४ ॥
॥
४॥
KI॥४॥