SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः | अजापुत्रक थान्तर्गताआरामनन्दनकथा। इत्युक्त्वा दयितामृत्युपातकातङ्ककम्पवान् । अदृष्टः स्वजनैझम्पा, चितायां वनसूरदात् ॥ ५१७॥ ततोऽनुपदमाद्भियुद्धथमानैमिथोऽपि सः। विद्याधरीवरूथिन्या, वेतालैश्च व्यलोक्यत ॥ ५१८॥ अथोचतुर्विद्याधर्यावहो ! वह्निचितामयम् । प्राविशत्कथमुत्प्लुत्य, कञ्चुके पश्यतोहरः ॥ ५१९॥ वेतालोऽपि तदा दध्यौ, हहा !! किमिदमागतम् ? । यद्रक्षार्थ मया युद्धं, स कथं वह्निमाविंशत् ? ॥ ५२० ॥ इत्युमे अपि ते सैन्ये, योद्धं शेथिल्यमीयुषी। ईयतु मंदातीरे, यत्रास्ते स रुदन जनः॥ ५२१ ॥ अथोत्तरेण तद्विद्याधोहस्त्यादिगर्जितम् । आकय दक्षिणेनाथ, वेतालोच्छृङ्खलारवम् ॥ ५२२ ॥ सम्भ्रमात्संवृतास्याग्रप्रावरणाश्चलाः क्षणात् । दृष्ट्वा तदुभयत्रापि, सैन्यं नेशुभयाजनाः ॥ ५२३ ॥ युग्मम् ॥ किमेतदिति ? सम्भ्रान्ता, गत्वा दूरे स्थिता जना। विलोकन्ते समायान्ती, चितामनुबलद्वयीम् ॥ ५२४ ॥ करिष्यन्ति किमेते हि , चितां प्रति कृतत्वराः । इति व्यात्तदृशः प्रोच्चैः, स्थानारूढा मिथो जगुः ॥ ५२५ ॥ राजा तु सर्वसन्नाहव्यूहमाधाय सत्वरम् । यो विद्याधरीसैन्यबभूवाभिमुखः क्षणात् ॥ ५२६ ॥ ततो विद्याधरीवृन्द, तच्चिता परितः स्थितम् । वीक्षाश्चक्रे भुवि भ्रष्टं, केकिन कञ्चुकं तथा ॥ ५२७ ॥ अस्मद्भयादथान्यस्माद्धेतोर्वा प्राविशच्चिताम् । अयं स कञ्चुकस्तेयीत्यालोकिष्ट चितां दृशा ॥ ५२८ ॥ विलोक्य चाक्षतं तत्र, सनाथं वामतस्तया । पद्मावत्याऽप्यक्षताङ्गथा, बारामपुत्रमुत्प्रभम् ॥ ५२६ ॥ युग्मम् ॥ अहो! आश्चर्यमाश्चर्य, प्रविष्टोऽनावपीह यत् । सप्रियोऽप्यस्ति सौवर्णासनासीनोऽम्भसीव सः॥ ५३०॥ ॥ ३॥ ||८३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy