SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥८१॥ वेतालः प्राह कस्मिंश्चित् पुरेऽदर्शि मयाप्यदः । यदेका स्त्री चितावह्नौ, प्रवेष्टुं प्रस्थिताऽभवत् ॥ ४६० ॥ ततो यदि पुनः सा ते, भाविनी दयिता खलु । तद्गच्छ त्वरितं येन त्वत्पृष्ठिरक्षकोऽस्म्यहम् ॥ ४६१ ॥ इति वेताल कथितस्त्रीवृत्तान्तकृतारतिः । वामाक्षिस्पन्दनेनापि, सूचितप्रेयसी मृतिः ॥ ४६२ ॥ ततश्चचाल सन्तप्तवपुश्चित्तो वनाङ्गजः । कीलिकायन्त्र सञ्चारजङ्घालदारुके किना ॥ ४६३ ॥ इतश्च नर्मदातीरे, कान्ता गतिदिनावधिम् । पूरयित्वा नृपं प्रोचे, पद्मावती कृताञ्जलिः ॥ ४६४ ॥ राजन्नहं स्ववर्गेण, वारितापि चितां प्रति । पतिमृत्युप्रायश्चित्तशुद्धये चलिताऽभवम् ॥ ४६५ ॥ पृथ्वी पुण्योच्चयेनाथ, मान्येन गुरुवत्त्वया । मर्कटाच्छुद्धिमानीय, स्थापिताऽहमियच्चिरम् ॥ ४६६ ॥ ततस्तल्लेख निर्दिष्टावधिदिनाधिकोऽभवत् । यदद्यापि स नायाति, तत्पत्युर्भाव्यमङ्गलम् ॥ ४६७ ॥ विसृज तन्महाराज !, चितावह्निप्रवेशने । पतिहत्योत्थपाप्मा, मामाक्रामत्यभितोऽपि यत् ॥ ४६८ ॥ इति श्लथीकृताबन्धमुक्त्वा राजानमुच्चकैः । नत्वां श्वशुरवर्गस्य, पितृवर्गस्य चादरात् ॥ ४६६ ॥ दत्त्वाऽत्यर्थमसौदानं, दीनानाथजनाय तु । श्रद्धावन्धोधुरीभूय, पूजयित्वेष्टदेवताम् ॥ ५०० ॥ अनुकूल्य सखी लोकं, क्षमयित्वा परिच्छदम् । आश्वास्य स्त्रकुटुम्बं चापृच्छ्य श्वशुरमात्मनः ।। ५०१ ॥ गर्हित्वा दुष्कृतं स्वस्य, सुकृतं चानुमोद्य सा । सिद्धसाक्षिकमालोच्य, चचाला चितां प्रति ॥ ५०२ ॥ ॥ चतुर्भिः कलापकम् ॥ प्रथमः परिच्छेदः अजापुत्रक थान्तर्गता आरामनन्द नकथा । ॥ ८१ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy