________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः परिच्छेदः
अजापुत्रकथान्तर्गता आरामनन्दनकथा।
विद्याधर्योः प्रभावेन, चतुर्दापि च तद्धलम् । प्रत्यारामसुतं व्योम्ना, दधावे चित्तरंहसा ॥ ४७६ ॥ ततो ददृशतुर्विद्याधयौं दूरेऽग्रगामिनम् । आरामनन्दनं वस्त्राञ्चलचुम्बितकञ्चुकम् ॥ ४७७ ॥ मिलित्वा ते अवेष्टेता, विद्याधयौं वनाङ्गजम् । ऊचतुश्च क्व रे ! यासि, गृहीत्वा कञ्चुकं करे?॥ ४७८ ॥ ऐक्षिष्टाऽऽरामसूर्यो नि, प्लवमानमितस्ततः । विद्याधर्योबलं दूराद्यादःसैन्यमिवाम्बुधौ ॥ ४७६॥ दध्यौ च न हि शक्ष्यामि, गन्तुमेत वृतोऽस्मि यत् । एकश्चाहं कथं योक्ष्ये , धास्य वा कञ्चुकं कथम् ॥४८॥ विद्याधर्योश्च सैन्येनात्यर्थमाच्छादितं नमः । भयादिवाभासश्च, नात्मानं दर्शयन्त्यपि ॥४८१॥ केवलं ध्वान्तसाम्राज्यमेकच्छत्रं विजृम्भते । नाग्रतः पश्यतो दृष्टी, दिग्मोहो भवितात्र मे ॥ ४८२ ॥ भ्रान्त्वा भ्रान्त्वा पतिष्यामि, भूयो भूयोऽपि भूरिशः । विद्याधोवरूथिन्यां, तत्कुर्वे किमतः परम् ॥४८३॥ वारंवारं पुरः पश्चात्पार्श्वयोनिकटं भवत् । विद्याधर्योर्बलं वीक्ष्य, स वेतालं ततोऽस्मरत् ॥ ४८४॥ स्मृतमात्रोऽपि वेतालः, समागात् सपरिच्छदः । मुखान्मुक्तानलज्वालाध्वस्तध्वान्तकृतद्युतिः॥४८५॥ मुक्ताट्टहाससन्त्रासपर्यस्तपरसैनिकः । नत्वाऽऽरामसुतं प्रोचे, समादिश करोमि किम् ? ॥ ४८६ ॥ स उवाच विद्याधर्योयु द्धयमानो वलं स्खल । समर्प्य कञ्चुकं यावदायामि पुनरत्र भोः !॥ ४८७॥ यद्यहं नाधुना तत्र, पुरे स्वे यामि तन्मया। आगमेनावधिः प्रोक्तः, पूर्यतेऽत्र विलम्बनात् ॥ ४८८ ॥ ततश्च मत्प्रिया प्रोद्यद्वाहिज्वालाश्चितां चिताम् । प्रविशेतत्त्वयाऽत्रैव, सैन्यं स्खल्यमनुव्रजत् ॥ ४८४॥
॥८
॥
R||८०॥