________________
चन्द्रप्रभस्वामि चरित्रम्
॥ ७६ ॥
इतश्व युद्धयमानास्ते, चपेटाभिः परस्परम् । आरुशन्द वृक्षमुत्पेतुर्दिवं विक्रमवलिंगनः ॥ ४६२ ॥ अथ दैववशाद्भग्नः, कालवक्त्रो ननाश सः । प्राणानादाय मुक्त्वा तु तत्र तान् काष्ठकेकिनः ॥ ४६३ ॥ आरामतनयः सम्यक्, कीलसञ्चारवित्ततः । आरुह्य केकिनं कश्चिद्वैताढ्यं प्रति सोऽचलत् ॥ ४६४ ॥ मनोवेगेन च स्पर्द्धमानेन काष्ठके किना । आरामतनयः प्राप, वैताढ्ये मङ्गलावतीम् ॥ ४६५ ॥ तुर्यभूमिगवाक्षाग्रपल्यङ्कन्यस्तकञ्चुकम् । कथञ्चिदप्ययं ज्ञात्वा विद्युन्मालिगृहं ययौ ॥ ४६६ ॥ विद्युन्मालिनिवासे च कलाप्यारूढ एव सः । प्रविश्य कञ्चुकं दृष्ट्वा, तमादाय च निर्ययौ ॥ ४६७ ॥ निर्भयत्वादवादीच्च, हट्टश्रेणिषु निर्भरम् । मदीयः कञ्चुको होष, नीयते तन्मयैव हि ॥ ४६८ ॥ इत्युच्चैर्घोषयन्नेष, निस्ससार पुराद्वहिः । कीलिका कौशलान्मक्षु, प्रतस्थे स्वपुरं प्रति ॥ ४६६ ॥ अकस्मादेत्य गेहाच्च, गृहीत्वा कञ्चुकं पुनः । केक्यारूढपुमानेष, हहा !! याति द्रुतद्रुतम् ॥ ४७० ॥ इति तारतरं विद्याधर्यौ ते इष्टकञ्चुके । सोरस्ताडं जनानुच्चैरूचतुर्धावत द्रुतम् ॥ ४७१ ॥
तोऽष्टापदं विद्युन्माली यो हि पतिस्तयोः । ततस्ताभ्यां स्वयं चक्रे कञ्चुके वाद निर्णयः ॥ ४७२ ॥ वञ्चुकग्राहिणं जित्वा, यात्र गृह्णाति कञ्चुकम् । तस्या एव भवेत्सैष, नान्यस्याः शपथोऽत्र नौ ॥ ४७३ ॥ इति निर्णयमाधाय, स्वस्वपैतृकपत्तिभिः । सनाथे चेलतुद्वे ते, तस्यानुपदमेव च ॥ ४७४ ॥ विचक्रतुः क्षणादेते, विद्याधर्यौ स्वशक्तितः । आश्वहास्तिकपादातरथकट्या चतुर्बलीम् ॥ ४७५ ॥
प्रथमः
परिच्छेदः
अजापुत्रकथान्तर्गता
आरामनन्दः
नकथा ।
॥ ७६ ॥