________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथम: परिच्छेदः
अजापुत्रका थान्तर्गता आरामनन्दनकथा।
काहला वादयामासुः, कातरप्राणहारिणीम् । एकान्ते केकिनो मुक्त्वा, चेलुस्ते च रिपून प्रति ॥४४८॥ . ज्ञात्वा प्रतिभयाद्वैरिसेनां तां बहिरागताम् । नेशुः केचिल्लताकुजे, वृक्षावृक्षं ययुः परे ॥ ४४६ ॥ कान्तामादाय केचिच्च, विविशुर्गिरिंगहरे। फलिताहिपम भिस्तस्थुस्तत्रैव केचन ॥ ४५०॥ नंष्ट्रा व्याघुव्य चान्ये तु, वीक्षन्तेऽरीस्तरुस्थिताः । भयात्केचित्स्खलत्पादा, निपत्यागुः पुनस्तरुम् ॥ ४५१ ॥ केचिन्नीलमुखं भूपमावृत्य शौर्यशालिनः । ऊचुर्देव ! दृढीभूय, गम्यतेऽभिरिपून स्वयम् ॥ ४५२ ॥ वीरावरणिकां कृत्वा, गच्छामः कतिचिद्वयम् । त्वत्प्रतापाद्विषां सेना, भक्ष्यामो यदिदं कियत् ? ॥ ४५३ ॥ समादिश यथायोग्यमेते स्मस्त्वनिदेशगाः । येन ते राजधानीयं, शत्रुभिर्व्याप्य भज्यते ॥ ४५४॥ लोकश्च क्षोभमापन्नः, त्यजन् पुत्रादि नश्यति । युद्धोपक्रममाधेहि, ज्ञास्यते विक्रमोऽधुना ॥ ४५५ ॥ इत्थमुत्तेजितो मन्त्रिसामन्तै विक्रमोद्धतैः। युयुत्सुश्च स्वयं नीलमुखो राजाऽऽह मन्त्रिणः ॥ ४५६ ॥ निधत्तान्तःपुरं दुर्गे, सहापत्ययथासुखम् । मुश्चन्तां दुर्गरक्षाय, सैन्यानि परितः स्फुटम् ॥ ४५७ ॥ इत्यादिश्य च नासीरवीरवल्गितराजितः । निस्ससार स सर्वाभिसारतो वानराधिपः ॥ ४५८ ।। ततो नासीरयोरासीद्वयोरपि महाहवः । नखानखि हताः पेतुरुभयत्रापि वानराः॥ ४५६ ॥ वानयश्च समानीयाब्जिनीपत्रपुटस्थितम् । पाययन्ति स्म पानीयं, युद्धयमानान् निजान् भटान् ॥ ४६॥ आरामतनयोऽप्यागाद्वेगात्तिष्ठन्ति यत्र ते । कीलप्रयोगसञ्चारात्पुङ्गवो दारुकेकिनः॥ ४६१ ॥
॥७८॥
॥७८॥