SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथमः परिच्छेद चरित्रम् | अजापुत्रकथान्तर्गता आरामनन्दनकथा। कथञ्चित्कञ्चुकं प्राप्य, प्रियायै ह्यपये यदि । ततश्चिताग्निझम्पाया, मूढमृत्युभवेन्न नौ ॥ ४३४॥ पुरेऽत्रैव स्ववृत्तान्तावेदकं लेखमर्पये । शाखामृगो यथा राज्ञे, निवेदयति यद्यथा ॥ ४३५ ॥ इति वल्लिरसेनेष, लिखित्वा पत्रमात्मना । समर्प्य मर्कटं स्नेहादनुगम्य व्यसर्जयत् ॥४३६ ॥ स्वयं च कञ्चुकोपायव्यग्रचित्तोऽभ्रमद्भुवि । स्वकान्तादर्शनासन्नावधि चेतसि चिन्तयन् ॥ ४३७ ॥ अन्यदा वानरीभृय, क्रीडतो व्यन्तरान् वने । वीक्ष्यारामसुतोऽपश्यत्तेषां कापेयकौतुकम् ॥ ४३८॥ तेष्वेको नृपतीभूतो, महान् कालमुखाभिधः । सामन्तामात्यपादातपदवानरसेवितः॥४३६॥ अथ कालमुखो राजा, द्वास्थं वानरमादिशत् । तक्षाणमादिश क्षिप्रं, कीलिकाकेकिनिर्मितौ ॥ ४४० ॥ गत्वा द्वास्थोऽपि तक्ष्णे तं, राजादेशं समादिशत् । सोऽपि वानरतक्षाऽऽशु, कीलिकाकेकिनोऽकरोत् ॥ ४४१॥ आश्वाकाशगतीन् कीलप्रयोगात्तान्विधाय सः। गत्वा विज्ञपयामास, तक्षा वानरभृभुजे ॥ ४४२॥ ततः सोऽवादयद् ढक्का, यियासुः प्रतिवानरान् । सम्भूयाजग्मुराश्वेव, सर्वे सन्नह्य वानराः ॥ ४४३ ।। व्यलब्ध केकिनः सर्वान् , वानराणां पृथक पृथक् । आरूढान् वीक्ष्य तान् राजा, चचालारुह्य केकिनम् ॥ ४४४॥ कीलप्रयोगादडीनान, सजीवानिव केकिनः। तेऽथ वल्गावशादश्वानिवामुश्चन् यथापथम् ॥ ४४५॥ व्योममार्गे प्रयान्त्येते, केक्यारूढास्तु वानराः । भूमार्गेण दधावे च, तानन्वाराममूस्ततः ।। ४४६ ॥ उत्तेरुः काननं प्राप्य, केकिभ्यो वानरास्तु ते। सज्जीबभूवुराश्वेवावस्कन्दायारिकानने ॥ ४४७॥ ॥७७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy