________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः |परिच्छेदः
तन्नीत्वाद्यैव रुष्टायाः, प्रियाया विदधाम्यहम् । ढौकने कञ्चुकं ह्ये नं, येन तुष्यति सा मयि ॥ ४०७॥ इति विद्याधरो ध्यात्वा, क्षणादागत्य वेश्मनि । यावदपयिष्यत्यस्य, तावदन्याऽथ तस्प्रिया ॥ ४०८॥ ज्ञात्वा कञ्चुकमायान्तं, पत्ये दास्या व्यजिज्ञपत् । समयः कञ्चको मह्यमारोक्ष्याम्यन्यथा चिताम् ।। ४०६ ॥ मयि सत्यां त्वमन्यस्यै, समर्पयसि कञ्चकम् । इदं स्वप्नेऽपि मा. मंस्थाः सपत्नीp हि दुस्सहा ॥ ४१० ॥ एतद्विद्याधरः श्रुत्वा, सन्देहाब्धौ ममज सः। द्विभार्यस्य हि पंसः स्यान्न दुःखस्यान्तरं खलु ॥ ४११॥ वयस्याभ्यः स्वयं चापि, भाणिते भणिते अपि । विद्याधयौँ न मन्येते, कञ्चुकादानमेकया ॥ ४१२॥ न शयाते न भुञ्जाते, कञ्चुकाप्राप्तिदुःखतः । विद्याधयौं ततः सोऽपि, विद्याधरो व्यचिन्तयत् ॥ ४१३ ॥ यद्येकस्यै प्रदास्यामि, कञ्चुकं ह्यपरा तदा । कुरुतेऽत्याहितं सोऽग्रस्तन्न कस्या अपि ध्रुवम् ॥ ४१४ ॥ इत्येकान्ते विमुक्तोऽसौ, कञ्चुकः सौरभोच्चयः। ययौ विद्याधरोऽप्यष्टापदे वन्दितुमर्हतः ॥ ४१५॥ विद्याधयौं तथैव स्तो, विना शयनभोजनम् । कथा ब्रूते विनोदाय, स्वस्वदासीजनस्तयोः ॥ ४१६ ॥ इत्येतद्धयोगिन्य, कथयन्तीस्तु योगिनीः । श्रुत्वाज्ञासीदथारामपुत्रः कञ्चुकमात्मनः ॥ ४१७ ॥ इति वृत्तान्तश्रवणात् , स्थिताः स्मस्तत्र किश्चन । भगवति ! प्रसीद त्वमपराधं क्षमस्व नः॥ ४१८ ।। सोऽस्ति मे कञ्चुकोऽद्यापि, कथं वैताढयपर्वते ? । सैष तस्करवृत्तान्तो, घटते मम चेतसि ॥ ४१६ ॥ यत्कृते कञ्चुकप्राप्तिः, प्रीत्यै स्यात्सा मृता प्रिया । प्रियामृत्युविधायिन्या, कृतं कञ्चुकवार्तया ॥ ४२० ॥
अजापुत्रकथान्तर्गता आरामनन्द. नकथा।
॥७५॥