________________
वन्द्रप्रमस्वामि चरित्रम्
प्रथम: परिच्छेदः
अजापुत्रकथान्तर्गता आरामनन्दनकथा।
तिरोहितः क्षणं पश्याम्येतासां स्वैरचेष्टितम् । इति विद्याधरः शाखिशाखायां निभृतोऽभवत् ॥ ३६३ ॥ राजपत्न्याह सानन्दात् , क्षेमङ्करि ! कुतः कथम् ? | लब्धवानार्यपुत्रोऽमुं, कञ्चुकं देवदुर्लभम् १ ॥ ३६४ ॥ ऊचे क्षेमकरी देवि!, त्वत्पुण्यलेब्धवान् नृपः । खादतां किलं पुण्यहि, जायते धावतां धनम् ॥ ३१५॥ तथापि कथयेत्येतत् , प्रोक्ता देव्यावदत्सखी । त्वत्पुण्यप्रेरिताश्चक्रश्चौराः केप्यत्र चौरिकाम् ॥ ३६६॥ प्राप्तास्ते नगराध्यक्षद्ध्वाऽऽनीता नृपाग्रतः । दृष्ट्वा तान् जनता राजे, व्यजिज्ञपत् कृताञ्जलिः ॥ ३६७ ॥ एतैर्नाथ ! पुरं सर्व, लुण्टितं खात्रदानतः । एतद्गेहे समस्तं हि, वस्तु सम्भाव्यते विभो। ॥ ३६८ ॥ ततश्च राजा तद्वेश्म, शोधयित्वा.धनं नृणाम् । यद्यस्य हि तत्तस्यैवायामास सुनीतिमान् ॥ ३६8 ।। लुण्टद्भिः स्तेनवेश्मानि, राजाध्यक्षैरवाप्यत । स एष कञ्चुकस्तत्र, सौरभव्याप्तनासिकः ॥ ४००।। तैराप्यंत नृपस्यैष, राजाप्यानन्दमीयिवान् । तुभ्यं चोपायनीचके, प्रेमाद्वैतं दधत्त्वयि ॥ ४०१ ॥ स एष प्रेम्ण उत्कर्षः, प्रियस्य दयितां प्रति । पश्यन्तीनां यदन्यासामेकस्याः प्राभृतार्पणम् ॥ ४०२ ॥ इति देवी निशम्याथ, प्रेमसर्वस्वमात्मनि । पत्युर्विचिन्त्य सन्तोषपीयूषनिवृताऽभवत् ॥ ४.३॥
आदिशच्च सखी वेगात्कञ्चुकं तं समानय । परिधाय यथाऽद्यैनं, राज्ञोऽर्द्धासनमाश्रये ॥ ४.४॥ सखी गत्वा गृहीत्वा तं, यावन्मार्गमुपस्थिता । तावद्विद्याधरः सोऽयं, जहे कञ्चुकमूर्ध्वतः ॥ ४०५॥ हर्षाद्विद्याधरो वीक्ष्य, कञ्चुके रामणीयकम् । दध्यौ यदस्य न म्लानिश्चित्रं न सौरभच्युतिः॥४०६ ॥
॥७४॥
K
॥ ७४॥