SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥ ७३ ॥ रक्तचन्दन चर्चा च चक्रेऽङ्गषु यथाविधि । कण्ठे मालां तथारक्तकणवीरस्य सोऽचिपत् ॥ ३७६ ॥ अभाणीच यदमिं त्वं परितो भ्राम्य निर्भयः । यथा सिद्धयति मे विद्या, स्वत्प्रभावेन सात्त्विक ! ॥ ३८० ॥ वेतालवचनं चित्ते स्मरन्नाराम सूस्ततः । ध्यायन् पञ्चनमस्कार मभ्राम्यत्परितोऽनलम् || ३८१ ॥ योगी च छलमादातुं तमनुभ्राम्यति द्रुतम् । मङ्गलावर्त्तनासत्कं यद्वदनुचरो वरम् ॥ ३८२ ॥ कालेनापि यदा व क्षेप्तुं तं नाभवत्क्षणः । विलक्षोऽभ्यग्नि चिक्षेप, योगी तं वननन्दनम् ॥ ३८३ || लघुकायः स उच्छल्य, दोर्भ्यामाङ्क्षिप्य योगिनम् । द्रष्टुं कौतुकमक्षेप्सीद्, ज्वलति ज्वलने क्षणात् ॥ ३८४ ॥ जातश्च तत्क्षणादेव, योगी जीवेन वर्जितः । सार्द्धषोडशसौवर्णपुरुषो द्युतिमन्दिरम् ॥ ३८५ ॥ तस्मिंश्च निःस्पृहोऽत्यन्तमारामतनयस्ततः । भूमौ निक्षिप्य तं कर्त्तुं मनशनं पुरोऽचलत् ॥ ३८६ ॥ ततश्च दिशि याम्यायां, गच्छन् शुश्राव योगिनीम् । विलम्बस्तत्र कि वोऽभूच्छिष्याभ्य इति पृच्छतीम् || ३८७ ॥ निपत्य पादयोस्तस्याः, शिष्यास्ताः प्राहुराकुलाः । विकथा श्रुतिचापल्यमपराध्यति देवि ! नः ॥ ३८८ ॥ योगिन्याह कथं जज्ञे, विकथाश्रुतिचापलम् १ | ताः प्राहुः श्रूयतां तर्हि, परमेश्वरि ! सादरम् || ३८६ ॥ अस्तीह भरते क्षेत्रे, वैताढ्यो नाम पर्वतः । एतस्य दक्षिणश्रेणावस्ति पूर्मङ्गलावती ॥ ३६० ॥ तत्र विद्याधरो विद्युन्माली नामास्ति सोऽन्यदा । गच्छन्नष्टापदं व्योम्ना, प्राप हीपुरपत्तनम् ॥ ३६१ ॥ तत्राथ वहिरुद्याने, तत्पुरमापवल्लभाम् । सखीभिः सह कुर्वाणां जलकेलिं ददर्श सः ॥ ३६२ ॥ प्रथमः परिच्छेदः अजापुत्रक थान्तर्गता आरामनन्द नकथा । | ॥ ७३ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy