SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि प्रथमः परिच्छेदः चरित्रम् अजापुत्रकथान्तर्गता आरामनन्दनकथा। आरामतनयस्त्वेष, तथाऽस्थादकुतोभयः। ततश्चागत्य वेतालः, कोपि कोपादुवाच तम् ॥ ३६६॥ अरे । न भवसीदानी, कुरु शस्त्रं स्मरामरम् । अद्य ते यमपुयों हि, प्रवेशदिनमुत्तमम् ॥ ३६७॥ इत्युक्तो वनस्तेन, दधावे सम्मुखस्ततः। वेतालघातं स्खलित्वा, तस्याङ्ग प्रविवेश सः ॥ ३६८॥ विक्रम्य मर्मणि स्वैरं, निहत्य मुष्टिभिमुहुः । वेतालः क्षमातले क्षिप्तः, सिद्धस्तेऽस्मीत्युवाच तम् ॥ ३६६ ॥ ततो मुक्तः प्रणम्याथ, वेतालस्तं व्यजिज्ञपत् । शौर्यक्रीतोऽस्मि दासस्ते, तद्ब्रहीष्टं करोमि किम् ॥ ३७० ॥ वनमः प्राह कष्टे त्वां, यदि स्मरामि तत्त्वया। शीघ्रमागम्य साहाय्यं, कार्य वेतालराज ! मे ॥ ३७१॥ ओमिति प्रतिपद्यासौ, तं प्रणम्य व्रजन पुनः । निवृत्य सहसा तस्मै, किलाप्त इत्यचीकथत् ॥ ३७२ ।। योगिनोऽस्य गिरा मास्म, भ्राम्यस्त्वं परितोऽनलम् । अन्यथा क्षेप्स्यति त्वां स, मायी वह्नौ स्वसिद्धये ॥३७३॥ यतः वयों दूरेण खलो, मध्यगतोऽनर्थकारणं स खलु । । पश्य प्रविश्य तक्र, स्तब्ध्वा दुग्धं विमन्थयति ॥३७४|| इत्युदित्वा पुन त्वा, वेतालोऽगानिजालयम् । आरामतनयोऽप्यस्थादुपसाधकमुद्धतः॥ ३७५ ॥ ततश्च योगिना मन्त्रादाकृष्टा देवताऽऽगमत् । ऊचे सा योगिनं ब्रूहि, कुर्वेऽहं किमतः परम् १ ॥ ३७६ ॥ योगी प्राह त्वया साध्यः, सौवर्णपुरुषोऽधुना । प्रवेक्ष्यत्यत्र वह्नौ यः, स भावी स्वर्णपूरुषः ॥ ३७७ ॥ इत्युक्त्वाऽऽज्यच्छटा वह्नौ, क्षिप्त्वा सा देवता ययौ । योगी चारामपुत्रस्य, शिखां मूय॑भ्यमन्त्रयत् ॥ ३७८ ॥ ॥७२॥ ॥७२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy