SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता आरामनन्द नकथा। इति पश्यन् जगामेष, धीरत्वाद्योगिनोन्तिके । दृष्टश्च योगिना दूरात , सम्पूर्णलक्षणो मुदा ॥ ३५२ ॥ अभिगम्य मुदाणि, मुश्चन् योगी जगाद तम् । मम पुण्यस्त्वमाकृष्टोऽकस्मादत्रागतोऽसि भोः!॥३५३ ॥ यन्मया ह्यधुना कृत्वा, पूर्वसेवां गुरूदितः । मन्त्रः साधयितुं सिडक्षेत्रेऽस्मिन्नुपचक्रमे ॥३५४॥ किन्तु सत्त्वाधिकः कोऽपि लब्धो नोत्तरसाधकः । तदभावादहं शक्तो, मन्त्रं साधयितुं नहि ।। ३५५॥ तदहं प्रार्थये त्वां हि, प्रसीद मयि सात्त्विक ! । विद्या साधयतो मे तदुत्तरः साधको भव ॥ ३५६ ॥ यतःगताशस्यापि तुष्टेन, देवेनार्थ: समयते । मृच्छपयस्तमम्भोज, पश्य जीवति भास्करात् ॥ ३५७॥ इत्युक्तो योगिनाऽत्यर्थमारामतनयस्ततः । दध्यौ चिन्तितपूर्वो मे, पूर्णो मृत्युमनोरथः ॥ ३५८ ।। साधयिष्यति योगीन्द्रो, विद्यां च तत्र भाविनः। विघ्नांस्तान् रक्षयतो मे, वेतालेभ्यः सुखान्मृतिः ॥ ३५९ ॥ प्रतिशणोमि योगीन्द्रवाचं द्रागिति निश्चयात् । आरामतनयः प्रोचे, योगिनं चास्मि तेऽनुगः ॥३६०॥ इति तद्वाक्यपीयूषस्रोतसि स्नानमानसः । भूत्वा च निवृतो योगी, पारेमे मन्त्रसाधनम् ॥ ३६१ ॥ आगच्छन् राक्षसः प्रेतो, वेतालोऽन्योऽपि कश्चन। वार्यस्त्वयेत्यथादिक्षदारामतनयं स हि ॥ ३६२ ॥ मण्डलान्तः प्रविश्याथ, योगी मन्त्रं मुदाऽस्मरत् । अभूच्च क्षोभो मन्त्राधिष्ठाच्या देव्यास्ततः पुरः ॥ ३६३ ॥ आजग्मुर्भू तवेतालशाकिनीप्रेतराक्षसाः। परीक्षार्थं ततो वत्रुमण्डलं परितः क्षणात् ॥ ३६४ ॥ उच्चैः किलकिलारावं, विदधुश्चैकहेलया। दिशो नेशुरिवाकाशं, पुस्फोटेव तदारवात् ॥ ३६५ ॥ ॥७१॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy