SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥ ७० ॥ मान्त्रिकान् मान्त्रिकान् शीघ्रमाह्वयत्यथ सागरे । भाषिणि स्वेन चैतन्यं प्राप्यारामसुतोऽवदत् ॥ ३३८ ॥ परस्मि निवार्यन्तां, मात्रिका यत्किमत्र तैः । स्वप्नावेशवशादुच्चैः, किलाहं विललाप भोः ! ॥ ३३६ ॥ इति निवर्त्य तान् पश्चादन्तश्चिन्तातुरोऽभवत् । चितामारोढुमुत्काभूत्प्रिया मे किमतर्किता १ ।। ३४० ॥ नायं मे स्याद्रुजा स्वप्नश्चिन्तास्वप्नोऽपि नैष मे । किन्तु सत्य इवाभाति, देवतादर्शितो सौ ॥ ३४१ ॥ अत एव हि मेऽङ्गषु, तापोग्लानिर्मनोभ्रमः । तत् किं कुर्वे ? कथं तत्र, याम्यहं कञ्चुकं विना ? ॥ ३४२ ॥ यद्वा कञ्चुकवार्ताऽपि मम शान्ता प्रियां विना । येन सा मद्वियोगेन, चितारूढा भविष्यति ॥ ३४३ ॥ स्त्रीहत्यापातकाक्रान्तात्मानं मां वोढुमक्षमा । क्षमापि तद्विरौ क्वापि, विधायानशनं प्रिये ॥ ३४४ ॥ इति निश्चित्य चित्ते स्वे, सागरश्रेष्ठिनं ततः । अनुज्ञाप्य क्षणाद्गन्तुं, चचाल स गिरिं प्रति ॥ ३४५ ॥ गच्छंश्च त्वरितं तत्र, पर्वतोपत्यकातले । इतस्ततः स योगीन्द्रानद्राक्षीत् कर्म कुर्वतः ॥ ३४६ ॥ तथाहिमृगत्वचि समासीनः कृत्वासननियन्त्रणम् । योगपट्टपरीवेषः, कश्चिदात्मानमीक्षते ॥ ३४७ ॥ कश्चित्पवनकाह्लादिनादाकृष्टमृगव्रजः । उच्चैर्मधुरमन्द्रां च चर्यागीतिमसूत्रयत् ॥ ३४८ ॥ कश्चिदप्यस्थिकूटोच्चपल्यङ्कविलुलद्वपुः । स्वेच्छया भैक्ष्यमुत्तानशयो भुङ्क्ते हसन् रटन् ॥ ३४६ ॥ कश्चित्करालप्रज्वालखादिराङ्गारखातिकाम् । मृद्गन् पद्भ्यामथाङ्गारान् करेणादाय चाघसत् ॥ ३५० ॥ अन्त्रसूत्रितहारेषु, वह्निकुण्डेषु कश्चन । जुहोति मांसखण्डानि, श्रद्धावान् मन्त्रसिद्धये ॥ ३५१ ॥ प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता आरामनन्दनकथा । ॥ ७० ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy