SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥ ६६ ॥ अथान्यदा जिनेन्द्राणां कृत्वाच सायमादरात् । स पञ्चस्तुतिमुच्चार्य, निद्रामुद्राङ्कितोऽभवत् ॥ ३२४ ॥ निद्रासुखादथाहारे, पक्वाशयमुपेयुषि । निशान्तप्रहरस्यार्थे, तेन स्वप्नस्त्वदृश्यत ॥ ३२५ ॥ free eng afteगरे नर्मदातटे । श्रीखण्डागुरुकाष्ठौ वैश्विता ह्य का व्यरच्यत ।। ३२६ । ततः पद्मावती तत्र, कृत्वा स्नानं नदीजले । विधायाष्टविधां पूजां, देवस्येष्टस्य भक्तितः ॥ ३२७ ॥ ऊ यद्यपि शास्त्रेषु, प्रवेशोऽग्नौ निराकृतः । तथाप्यहं करिष्यामि, प्रवेशं जातवेदसि ॥ ३२८ ॥ यतो मयका हतया, दुराग्रहगृहीतया । कञ्चुकानयने प्राणदयितः प्रेषितो हठात् ॥ ३२६ ॥ व्यावृत्य यत् स नायातस्तन्मन्येऽहममङ्गलम् । मृतो वा मारितो वान्यैरिति तस्य द्वयी गतिः ॥ ३३० ॥ अथवाऽन्येन शक्योऽयं, प्रेषितुं यमसद्मनि । न च तादृगभूद्रोगो, येन स्वेन म्रियेत सः ॥ ३३१ ॥ न च जीवति येनैष, न तिष्ठेन्मां विना क्वचित् । तन्मेऽसौ प्रत्ययः प्रेम्णो, मद्वियोगोऽस्य मृत्यवे ॥ ३३२ ॥ भावि वः कल्मषं लोकाः, पापास्यां मां हि पश्यताम् । मिथः स्नेहस्य कः स्याच्च, प्रत्ययः प्रिययोजने ९ ॥ ३३३॥ जीवन्तीनां विना नाथं स्त्रीणां स्युदु वचांसि च । सति भर्त्तरि नारीषु, स्निह्यन्ति पितरोऽपि च ॥ ३३४ ॥ इत्यहं तं विना वह्नौ, विशाम्येषा स्वमृत्यवे । इत्युच्चार्यं दधावे च, चितां प्रति स्फुरत्क्रमा ॥ ३३५ ॥ पश्यन् साचादिवैनां द्रागुत्तस्थौ वनसूर्भयात् । उच्चैरूचे च मामेतिं प्रिये ! पश्यसि किं न माम् १ ।। ३३६ ॥ इत्युच्चैर्लापिनं तं हि श्रुत्वोत्तस्थौ परिच्छदः । किमेतदिति संरम्भात्तमुवाच मुहुर्मुहुः ॥ ३३७ ॥ ? प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता आरामनन्द नकथा । ॥ ६६ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy