SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथम: परिच्छेदः चरित्रम् देवादासाद्य रत्नानि, तेजश्च यशसाञ्चितम् । रत्नच्छगणवृत्तान्ताद्भूपं विस्मापयं खलु ॥ ३१२॥ अधुना निजदोर्दण्डार्जितद्रव्यव्ययादहम् । सप्तक्षेच्या कृतश्रद्धो बोधिवीजं लभेय चेत् ॥ ३१३ ॥ इति ध्यात्वाऽहंता चैत्यमालास्वष्टाहिका व्यधात् । राज्ञे दत्त्वा धनं मूलादमारिं पर्यघोषयत् ॥ ३१४ ॥ अवारितमहादानडिण्डिमं पर्यवादयत् । कारागारग्रहग्रस्तगुप्तिकायानमोचयत् ।। ३१५ ॥ हर्षाश्रपूरसम्पूर्णश्रद्धासिन्धुशुचीकृतः । तपश्चारित्रपात्राणि, प्रासुकान्नाद्यलाभयत् ॥ ३१६ ॥ धन्यमन्यस्ततः सोऽथ सङ्घातघातकर्मठम् । भोजनाच्छादनाद्यैश्च श्रीसङ्घ पर्यपूपुजत् ॥ ३१७ ॥ साधम्मिकाणां वात्सल्यं, कृत्वैवं मुदितस्ततः । प्रत्यष्ठापयदाचार्यात् , स बिम्बान्यहतां मुदा ॥ ३१८॥ अलेखयच्च कर्माब्धिमजजीवतरीनिभान् । जगद्वन्धुजिनादिष्टसिद्धान्तपुस्तकान् बहून् ॥ ३१॥ इत्थं व्ययादपर्याप्तद्रव्यसम्भारकारणात् । मणिरत्नाङ्कितं रम्यमहेंच्चैत्यमकारयत् ॥ ३२० ॥ एवं श्रद्धावशोलासिपुण्यप्रावृतजीवितः। धर्मकशरणो जज्ञे, सुधीरारामनन्दनः ॥३२॥ स्वपुण्योपार्जितं वित्तं, स्वपुण्यपरिपुष्टये । दवाऽऽरामसुतः स्वायम्भविष्णुः श्रेयसाऽभवत् ।। ३२२ ॥ यतःलक्ष्मीरात्मगृहोद्भवेति तनया पात्रेप्यदातुः स्वयं, लोकावारिनिधेरिवान रुदतः सा गह्यते जिष्णना। चेत्पाणिग्रहणं विधाप्यत इयं त्यागेन सूत्वा यशः,-पुण्ये क्वापि गतापिवत्सलतयाव्यावर्त्तते तत्पुनः।३२३॥ अजापुत्रकथान्तर्गता आरामनन्दनकथा। ॥६ ॥ K ॥६८॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy