________________
चन्द्रप्रभस्वामि
प्रथम: परिच्छेदः
चरित्रम्
आलापशालिनं श्रेष्ठिसागरं रचिताञ्जलिः। पितरं पुत्रवनम्रचाराममूळजिज्ञपत् ॥२४॥ वसून्यर्जितान्येतानि, मया कमकृतेव ते । व्यवसायः फलेत प्रायः, पुण्येन स्वामिनः खलु ॥२८५॥ तत्त्वं गृहाण सर्वाणि, यदेषां त्वमसि प्रभुः। मया हि गच्छतापीति, त्वां प्रति प्रतिशुश्रुवे ॥ २८६॥ सन्तुष्टेनेव देवेन, तेनेत्युक्तः स सागरः । स्वीचकार यत्कोऽनेच्छुरागच्छद्रव्यमौकसि १॥२८७॥
इतश्चान्यैर्वणिक् पुत्रैरात्मीयव्यवहारिणाम् । छगणानां कथाऽऽख्यायि, चिन्तासन्तानसारणिः ॥ २८८ ॥ ततः सर्वे महेभ्यास्ते, सर्वस्वक्षतिभीतयः। सम्भूयालोच्य किमपि, निशीयुः सागरौकसि ॥ २८॥ श्रेष्ठी च सागरस्तेनारामपुत्रेण संयुतः । अभ्युदस्थात् समुदायो, येन गौरवमर्हति ॥ २६०॥ यतःगौरवमधिकं विभ्रन्न महान मान्यो जनेपि तु तनुत्वम् । दवपावकपूर्णेन्दु, ननु पश्यत दीपवालेन्दु ॥२६॥ यथायोग्यं च मुक्तानि, परित्यज्यासनानि ते । इष्टदेवस्येवारामपुत्रस्याग्रे ह्यु पाविशन् ॥ २९२॥ ऊचुर्दीनवचांसीति, शीतार्ता इव कम्पिनः । धीमन् ! वयमधमर्णा, बभूविम तव ध्रुवम् ॥ २६३ ॥ द्विनिषिद्धस्त्वयाप्येभिरेधसे हि वणिक्सुतैः । सरत्नानीत्यजानद्भिरात्तानि गोमयानि ते ॥ २६४॥ तानीह भस्मसात्कृत्वा, त्यक्तान्यम्भोधिपाथसि । न तेष्वेकमप्युद्ववे, भक्तवत्कृपणौकसि ॥ २९५॥ यदेकं लभते रत्नमारामसुत ! तावकम् । विक्रीयमाणाः सर्वेऽपि, न तल्लभामहे वयम् ॥ २६६ ॥ पत्राक्षराणि संवीक्ष्य, वीक्षापना वयं ततः । त्वां चाननुज्ञाप्य षण्यं, नानयामः स्ववेश्मनि ॥ २६७ ॥
अजापुत्रक. थान्तर्गता आरामनन्द. नकथा।
॥६६॥