SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता आरामनन्दनकथा। तेभ्योऽपि स तथा रत्नान्यादाय रचिताञ्जलिः। द्रष्टुं वेलातटं स्वामिन् !, प्रसीदेति व्यजिज्ञपत् ॥ २७१ ॥ गुरोरिव तस्यादेशात् , स राजाऽऽरुह्य वाजिनम् । सांयात्रिकान् सहादाय, कौतुकात्तत्र जग्मिवान् ॥ २७२ ॥ आरामतनयातकाच्छुष्यत्तालुस्खलगिरः । भूभुजे दर्शयामासुः, स्वभाण्डं वणिजः परे ॥ २७३ ।। अपश्यत् स नृपस्तानि, क्षणनिक्षिप्तया दृशा । गोमयोच्छायमभ्यागान्मुक्तवल्गेन वाजिना ॥ २७४॥ ततश्चारामपुत्रेण, द्विधा तानि विधाप्य च । वागुरेवान्यवणिजा, रत्नराशिरकार्यत ।। २७५ ॥ रत्नराशिं नृपः प्रेक्ष्य, परमानन्दभागभूत् । प्रजापालकभूपाला, मोदन्ते हि जनहिभिः ॥ २७६ ॥ ततश्च दर्शयामास, भूभुजेऽक्षरपत्रकम् । तत्रोद्धारकमद्राक्षीद्राजान्येषां सहस्रशः ॥ २७७ ।। प्राहारामसुतो भूपमेभ्यो लभ्यान्यमूनि हि । स्वयं दास्यन्ति चेन्नैते, तद्वो विज्ञपयिष्यते ।। २७८ ।। दानमुक्ति प्रपद्येषां, सर्वेषां व्यवहारिणाम् । विशेषप्रसादं कृत्वाऽऽरामसूनोस्त्वगान्नृपः ॥ २७६ ॥ गते तस्मिन् क्षणादन्यो, राजा तं रत्नपर्वतम् । द्रष्टुमागादन्तरिक्ष, वनसूस्तमवर्णयत् ॥ २८० ॥ क्रीत्वा भास्करमण्डलादपि कराक्रान्तात सुधाया दलम् , संस्कृत्यात्मनि वत्मनि प्रतिनिशं तद्वर्णिकां दर्शयन् । राकापर्वणि पर्वतारिनगरे लोकेऽर्थिनि स्तोकशो, विक्रीयेन्दुवणिक् सदेश्वरमहामूर्धन्य एवाभवत् ॥ २८१॥ आरोप्य शकटं रत्नान्यागात् स श्रेष्ठिवेश्मनि । श्रुतस्वरूपः श्रेष्ठी तु, सम्भ्रमेण तमभ्यगात् ॥ २८२॥ सागरश्रेष्ठिनं दूराज्जोदकरोत् स कृत्यवित् । स्नेहात्तं श्रेष्ठयभिष्वज्य, स्वार्धासनमवीविशत् ॥ २८३ ॥ ॥६५॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy