SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथमः परिच्छेदः चरित्रम् | अजापुत्रक थान्तर्गता आरामनन्दनकथा। उपायनीकृतेष्वन्यैः, सुवर्णमौक्तिकादिषु । दृष्टया निमालयन् भूपोऽद्राक्षीच्छगणकान्यथ ॥ २५७ ॥ स कोपकौतुकौत्सुक्याद्वभाषे भूपतिभृशम् । केनेदं ढौकनं चक्र, दुष्प्रापं वणिजा मम ॥ २५८ ॥ द्वास्थः कृताञ्जलिः प्रोचे, नाथाऽऽरामभुवाऽमुना । राजा तं वीक्ष्यमाणोऽथास्मरत्तबुद्धिवैभवम् ।। २५६ ॥ चेतस्यथ स दध्यो चोत्थापितो ह्यमुना करी। बुद्धिप्रयोगः कोप्यस्य, नूनमत्रापि जम्भते ॥ २६० ॥ निश्चित्य चेतसेत्येष, राजा दक्षशिरोमणिः । अर्गलासरलेनाऽथ, हस्तेनैकं तदग्रहीत् ॥ २६१ ॥ आरामपुत्रो मुमुदे, गोमयादानकर्मणा । सभया सार्धमत्यर्थ, मूढाः सिम्मियिरे परे ।। २६२ ॥ स्फोटयामास तन्नालिकेरवद्विष्टरे नृपः। अब्धिमध्यादिवादित्यो, रत्नं प्रादुरभूत्ततः ।। २६३ ॥ आत्तं हि स्वधिया पूर्व, पश्चादादत्त पाणिना । स्वयं परीक्षको राजा, रत्नं वीक्ष्य मुदं ययौ ॥ २६४ ॥ अन्यान्यपि स्वयं राजा, प्रस्फोटयाविदितश्रमः। जग्राह तानि रत्नानि, तेषु गृध्नुर्भवेन का?॥ २६५॥ अर्कस्येवांशुभी रत्नरश्मिभिः सर्वसंसदः । हर्षोत्कर्षमासेदुष्या, मुखाब्जानि चकाशिरे ॥ २६६ ॥ उलूकानामिवैतेषां, सांयात्रिकनृणां पुनः । उद्योतेऽपि तदातऋतिमिरमसृणादृशः ॥ २६७ ॥ रत्नगर्भाञ्जलिपुटो, नमस्कतु मिवोद्यतः । पप्रच्छ स्वागतं राजाऽऽरामपुत्रं तमादरात् ॥ २६८ ॥ स्वागतं त्वत्प्रसदान्मे, तेनेत्युक्तः पुनर्नृपः। अपृच्छत्सर्वमीदृक्षं, पण्यं किं तेऽस्ति धीधन ! १ ॥ २६६ ॥ ओमित्युक्त्वा स राजानं, विज्ञाप्यानाययत्ततः। शौल्किकेभ्यो गोमयानि, पश्यतां वणिजां खलु ॥ २७०॥ ॥६४॥ K ॥६४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy