SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रथम: परिच्छेदः चन्द्रप्रभस्वामि चरित्रम् अजापुत्रक| थान्तर्गता आरामनन्दनकथा। वर्द्धयामासुरेतेऽपि, मङ्गलोद्गीतिपूर्वकम् । सवाहनान् वणिकपुत्रान् , सलाभः पूज्यते खलु ॥ २४३ ॥ तस्यारामतनूजस्य, न ययौ च न चाययौ । वर्द्धकः कोऽपि येन स्युर्वन्धभिर्मङ्गलश्रियः॥ २४४॥ ततश्चोत्तार्योत्तायते, स्वस्वप्रवहणावहिः । समुद्रवेलापर्यन्तेऽकारयन् पण्यपर्वतान् ॥ २४५ ॥ आरामतनयोप्येवमुत्तार्य गोमयान्यपि । तदुत्करं व्यधान्मङ्गलार्थ गेहारिकामिव ॥ २४६ ॥ ततश्चेक्षकलोकोऽन्यो, वीक्ष्यान्यपण्यसञ्चयान् । प्रपश्यन् गोमयोच्छ्रायं, जहास दत्ततालिकः ॥ २४७॥ आरामसूस्वरूपं तज्ज्ञात्वा श्रेष्ठयपि सागरः । द्रव्यव्ययजनहास्यदुःखात्तस्थौ स्ववेश्मनि ॥ २४८ ॥ अथेभ्यास्ते समादाय, सारवस्तूनि पण्यतः। भूभुजे ढौकनं चक्रुर्दानाल्पत्वविधित्सया ॥ २४६ ॥ गोमयभरणिं भृत्वाऽऽरामसूरपि भूपतिम् । दिदृशुः प्रविशन् पुर्या, गोपुराध्यक्षमैक्षत ।। २५०॥ विमृश्यैष ततस्तस्मै, किमनेनेत्यगृहृते । रक्षाऽस्य रोगघ्नीत्युक्त्वा, ह्य के गोमयमापयत् । २५१॥ शुल्कशालामुपेत्याथ, नान्यदस्तीति वेदयन् । तद्वत्पञ्चकुलस्यापि, पञ्चैतानि समर्पयन् ।। २५२ ॥ कर्मकन्मस्तकारूढगोमयभरणीयुतः । आपणश्रेणिमार्गेण, नृपोकोद्वारमाययुः॥ २५३ ॥ युग्मम् ।। वीक्ष्यान्योन्यं प्रहसद्भिः, पौरलौकैः स वेष्टितः । द्वास्थेन ज्ञापितो राज्ञः, प्राविक्षद्राजसंसदि ॥ २५४ ॥ आयान्तं तं तथा वीक्ष्य, महेभ्यास्ते पुरागताः । आख्यन्नृपायोपहासानाथाभ्येति सुधीरसौ ॥ २५५ ॥ भरणि मोचयित्वाऽग्रे, राज्ञो निःक्षोभमानसः। नत्वा दण्डप्रणामेन, नृपं स समुपाविशत् ॥ २५६ ॥ ॥६३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy