________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
अजापुत्रकथान्तर्गता आरामनन्दनकथा।
भ्रमन्ती नर्मदातीरे, सा नौ रीव पुंश्चली । नर्मदास्रोतसाच्छेद्य, चालिताऽम्भोधिमापतत् ॥ २०१॥ दैवयोगेन साम्भोधौ, प्रभ्रम्य नाविकान्विता । श्रान्तेवागत्य द्वीपेत्राऽविनष्टैवालगत्तटे ॥ २०२॥ आरामसूश्च तां वीक्ष्य, ममैषेत्युपलक्ष्य च । दधावे सम्मुखं तस्याः, स्वमातुरिव बालकः ।। २०३ ॥ उत्तीर्ण नाविकं स्नेहादभिष्वज्य स्वबन्धुवत् । आनीय स निजावासे, दिव्यौदनमबूभुजत् ॥२०४ ॥ पप्रच्छ तस्य वृत्तान्तं, मुश्चन्नश्रुणि भूरिशः । विना रत्नस्वरूपं चात्मवृत्तान्तमचीकथत् ॥ २०५॥ मिलिते नाविके तस्मिन्, वनमूमु मुदेऽधिकम् । परस्परं वियुक्तानां, दर्शनं सुदिनायते ॥ २०६ ॥ स्मारं स्मारं कुटुम्बं स्वं, प्रेयसी तां तथोज्झिताम् । तस्योत्तिष्ठन् वियोगाग्निर्याम्भसोपशान्तवान् ॥ २०७॥ अथ सांयात्रिकास्तेऽपि, विधाय क्रयविक्रयम् । लाभभाजो निवृत्ता द्राग, द्वीपेऽस्मिन पुनराययुः ॥२०८॥ पुनस्तथैव तत्राम्भ, आदाय ते पुरं प्रति । आकारयामासुरेनं, सोऽपि सज्जीवभूव च ॥ २०६ ।। यानपात्रे सरत्नानि, रत्नरिक्तानि नावि च । क्षेपयंच्छगणकानि, तैरुक्तं किमिदं ननु ? ॥ २१ ॥ एतावद्भिर्दिनै राशिः, सागरबेष्ठिनो मया । अविदुरेणोपायानां, दायादेनेव भक्षितः ॥ २११॥ गोमयान्यत्र मुक्तानि, कस्यार्थे हि लगन्ति भोः ! । इन्धनाहरणायैव, किलागामित्युवाच सः॥ २१२ ।। हसद्भिस्तैः पुनः प्रोचे, सरलोऽस्यधुना खलु । मुञ्चैतान्यत्र तत्रैषां किमस्त्यप्रापणिः पुरे ? ॥ २१३॥ वरमस्माकमाकण्ठपण्यपूर्णतरीचयात् । निधेहि वाहने किञ्चिद् , दास्यामस्तव भाटकम् ।। २१४ ॥
K
॥६
॥