________________
चन्द्रप्रभ
स्वामि
चरित्रम्
॥ ५६ ॥
यावदायान्ति नान्यानि तावद्गृह्णाम्यहं त्विमाम् । इत्यात्मम्भरिरादातुं स्थालों प्रत्यक्षिपत् करम् ॥ १८७ ॥ अथारामसुतेनापि, निजपाणिः प्रसारितः । यादःपुमांश्च भावज्ञो वा झम्पामदात्पुनः ॥ १८८ ॥ आगच्छन्त्यन्ययादांसि, नास्त्यद्येति निवर्च्य सः । मायावी तं क्षणं स्थित्या, रत्नपाणिरगात् पुनः || १८६ ॥ रत्नं प्रक्षिप्य तत्पाणौ, स्थालीमादाय सम्भृताम् । करम्भं बुभुजे तुन्दपरिमृजोऽथ सोऽभवत् ॥ १६० ॥ आरामतनयो रत्नं, वीक्ष्य रत्नपरीक्षकः । जहर्षाऽत्यर्थं सफले, ह्य पाये को न मोदते १ ॥ १६१ ॥ सिद्धोपायस्ततो भूयो भूयोऽपि स दिने दिने । अज्ञापयत् कर्मकृतां, करम्भाट्टमिव व्यधात् ॥ १६२ ॥ आनीयानीय रत्नानि रत्नाकरतलान्मुहुः । तस्माद्यादांसि गृह्णन्ति पण्यवत्तं करम्भकम् ।। १६३ ॥ रत्नान्यारामपुत्रस्य, वर्द्धन्ते प्रतिवासरम् । अपत्यानीव निःस्वस्य, सिराम्भस्यवटस्य वा ॥ १६४ ॥ रत्नानि रक्षितुं तस्य, प्रियजानेः कलत्रवत् । चिन्ता रात्रेर्दिनश्रीवनिद्रायाश्छेदिकाऽभवत् ॥ १६५ ॥ प्रत्युत्पन्नमतिः सोऽथ, चित्ते निश्चित्य किञ्चन । आर्द्रच्छगणकेष्वन्तरेकैकं रत्नमक्षिपत् ॥ १६६ ॥ आत्मशुश्रूषिकामुक्त्वा, मैतानि जिह्वलः खलु । सरत्नानामरत्नानां चैषां पृथग् वलिं व्यधात् ॥ १६७॥ एवं च कुर्वतस्तस्य, वलिद्वयं रराज तत् । सेतुद्वन्द्वमित्रारब्धं, लङ्घितुं दौःस्थ्यसागरम् ॥ १६८ ॥ कियद्भिर्दिवसैस्तुल्या, सावलिद्वय्यवर्द्धत । बुद्धिस्थाल्यां तु तत्कीर्त्ति सिद्धये चुल्लिकेव हि ॥ १६६ ॥
इतश्चाराम पुत्रेऽस्मिन्नुत्तीर्णे ह्यनुकञ्चुकम् । सोऽबद्ध्वा नर्मदातीरे, नावं सुष्वाप नाविकः ॥ २०० ॥
प्रथमः
परिच्छेदः
अजापुत्रकथान्तर्गता आरामनन्दनकथा ।
॥ ५६ ॥