________________
चन्द्रप्रभस्वामि चरित्रम्
॥ ५५ ॥
अनेनादायि मे श्रेष्ठिपदवी नगरेऽत्र तत् । अहमस्मै ददे पुत्रीं, स्नेहो ह्यादानदानतः ॥ १३२ ॥ ध्यात्वेति सागरश्रेष्ठी, रहस्याहूय गौरवात् । आरामसुतमाचष्ट, भृत्यवद्विहिताञ्जलिः ॥ १३३ ॥ दीयमानं स्वयं राज्ञा, प्रसादं नाहीद्भवान् । तन्मे किमस्ति यद्दत्त्वा त्वां हि सन्तोषयाम्यहम् ॥ १३४ ॥ किञ्चैतत्प्रार्थयेऽहं स्वां, यत्कुमारी सुताऽस्ति मे । उपयच्छस्त्र तां कुर्वन्ननृणं मां त्वमात्मनः ॥ १३५ ॥ थामतस्तं प्रत्यभाषिष्ट विशिष्टधीः। परिणीतोऽस्म्यहं श्रेष्ठिन् !, स्वदेशेष्विभ्यवेश्मनि ॥ १३६ ॥ तदलं मे द्वितीयेन, कलत्रेणाधिहेतुना । प्रतिपन्नः पिताऽसि त्वं त्वत्सुता हि स्वसा मम ॥ १३७ ॥ अथान्यदा महेभ्यान, यानपात्राण्युदन्वति । अक्रियन्ताऽतिसञ्जानि, परतीरयियासया ॥ १३८ ॥ ततश्वारामपुत्रोऽपि, जजल्प श्रेष्ठिपुङ्गवम् । अस्ति हे तात ! मे यानपात्रारोहण कौतुकम् ॥ १३६ ॥ तदर्पय कियद्द्रव्यं, वणिक्पुत्रस्तवास्म्यहम् । सलामं तत्त्वया ग्राह्य, विनोदः केवलोऽस्तु मे ॥ १४० ॥ अग्रे दातुमनाः श्रेष्ठी, विशेषात्तेन याचितः । तस्मै लक्षप्रमाणं स ददौ द्रव्यमुदारधीः ॥ १४१ ॥ अथारामसुतो व्रीहीनक्रीण | द्वहुशो धनैः । अष्टौ च महिषीभू रिक्षीरसप्पिविधायिनीः ॥ १४२ ॥ कपूरशर्करादींश्व, पदार्थानात्मनः प्रियान् । व्रीहोन्पेष्टुं यन्त्राण्यष्टौ, मुसलोदूखलं तथा ॥ १४३ ॥ स्थालीश्च रन्धनायाऽथान्यद्भोजनोपयोगि च । तथैव दिव्यवस्त्राणि, शस्त्राणि प्रचुराण्यपि ॥ दधे वृत्त्या कर्मकरानष्टौ कर्मकरीस्तथा । आत्मशुश्रूषिकां चैकां स कात्यायनिकां स्त्रियम् ॥
१४४ ॥ १४५ ॥
प्रथमः
परिच्छेदः
अजापुत्रक
थान्तर्गता
आरामनन्द
नकथा ।
॥ ५५ ॥