________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
अजापुत्रकथान्तर्गता आरामनन्दनकथा।
वशां विहितशृङ्गारामक्षिपत्तत्र पाथसि । लोकमुत्तारयामास, पाल्याः स राजपूरुषः॥ ११८॥ सल्लकीभक्षणोद्भूतमदवशंवदः । पाथसा च लघूभूतवपुर्भारकृतोद्यमः॥ ११६ ॥ अधस्ताच्चेष्टकावन्धदृढलब्धपदस्थितिः। स हस्ती तां वशां वीक्ष्योत्थात गात्रमचालयत् ॥ १२०॥ युग्मम् ॥ आरोहकैवहिभूतः, प्रेरिता साथ हस्तिनी। उपेत्य करिणस्तस्योपरि स्वं करमक्षिपत् ॥ १२१ ॥ तस्याः स्पर्शेन तत्कालकामोद्रेकमहाबलः । तया रिरंसुरुत्तस्थौ, स्वयमेव शनैः शनैः ॥ १२२॥ अथारामसुतो धीमान, हस्त्यारोहान् समादिशत् । अरे रे ! शनकैर्नीरादहिः कृषत हस्तिनीम् १२३॥ एतैस्तथाकृते कोशो, वरत्रयेव वारिणः । आनीयत बहिः पृष्ठलग्नोऽयं वशया गजः ॥ १२४ ॥ विश्रम्य मुहुराकृष्टः, स द्विपो लोहपिण्डवत् । इभ्याऽयस्कान्तपिण्डथे व, हस्तिशालामनीयत ॥ १२५ ।। अहो ! बुद्धिरहो ! बुद्धिरन्यबुद्धेरगोचरम् । इत्यारामसुतं राज्ञः, पुरः प्राशंसिपुर्जेनाः॥१२६ ॥ तया बुद्धया नृपस्तुष्टोऽस्मे दित्सुः पारितोषिकम । तमात्मपाबमानेतुमाहवत्सगौरवम् ॥ १२७ ॥ प्राविशत् स नृपाहूतस्ततस्तां राजसंसदम् । पश्चाङ्गप्रसादं दत्त्वा, नृपोऽवोचद्वृणीष्व भोः ॥१२८॥ आकार्य श्रेष्ठिनं सोऽथ, सागरं तत्र संसदि । व्यजिज्ञपन्नृपं राजन् !, दीयतामस्य तद्वरः ॥ १२६ ॥ राज्ञोक्तः सागरश्रेष्ठी, विमृश्य मनसि क्षणम् । ययाचे तत्पुरश्रेष्ठिपदं शाश्वतिकं नृपम् ॥ १३०॥ सोऽभूनाम्नैव प्राक् श्रेष्ठी, राज्ञा सत्यीकृतः पुनः । पौर: सक्रियतेऽत्यर्थ, राजमान्यो हि पूज्यते ॥ १३१ ॥
॥ ५४
K
॥५४॥