________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः परिच्छेदः
अजापुत्रकथान्तर्गता आरामनन्दनकथा।
आधोरणेन विज्ञप्ते, स्वरूपे हस्तिनस्तथा । कुञ्जरोत्थापने राजा, बहुपायानकारयत् ॥ १०४॥ अधःखातेऽहिगात्रस्य, धत्ते न पदमप्यसौ । सङ्गिकाभिर्वरत्राभिरुत्पाटितोऽपि नाचलत् ॥१०५॥ परीक्ष्य सचिवादीनां, बुद्धिं राजा त्ववादयत् । डिण्डिमं नगरस्यान्तरित्युद्घोषणपूर्वकम् ॥ १०६॥ य एनं कुञ्जरं बुद्धयोत्थापयति सुधीर्नरः । तद्याचितं नृपो दत्ते, तज्जनाः ! श्रूयतामिति ॥ १०७॥ द्विरदोत्थापने ये स्युरुपायास्ते कृताः खलु । राज्ञैवेत्यल्पधीः पौरोऽस्माक्षीत् कोऽपि न डिण्डिमम् ॥१०८॥ अथारामसुतो धाम बुद्धहर्षात तमस्पृशत् । धीमद्भिः कौतुकात्पौरवीक्ष्यमाणो ययौ नृपम् ॥ १० ॥ प्रणम्य नृपति प्राह, कुञ्जरोत्थापने विभोः! । यः करोति ममादेशं, तमाज्ञापय मन्त्रिणम् ॥ ११०॥ भूपोऽथ सचिवं किञ्चित् , निसृष्टार्थ न्यरोपयत् । ततश्चारामपुत्रोऽपि, द्विपोपान्तमगाद् द्रुतम् ॥ १११॥ समीक्ष्य हस्तिनं दीर्घशुण्डासीत्कारमोचिनम् । गात्रांऽह्रिस्थानखातं तत्पूरयित्वेदमादिशत् ।। ११२ ॥ परितः कुञ्जरं हस्तशतमानेऽत्र भूतले । दृढेष्टकोत्तानपट्ट, कारयामात्य ! वेगतः ॥ ११३॥ तथेति कारिते तेन, मन्त्रिणा पुनरादिशत् । उत्तानपट्ट परितः, पालिमुच्चैविधापय ॥ ११४ ॥ भूपतेरिव तस्याथ, तमादेशं स मन्त्रिराट् । क्षणेन कारयामास, राजादेशाद्भवेन्न किम् ? ॥ ११५॥ किमेषोऽथात्र कतै ति ?, विमृशत्सु सुधीष्वपि । हस्तिने दापयामास, सल्लक्यादि मदावहम् ।। ११६ ॥ तडागपालिं प्रस्फोटयापूरि तत् स्थानमम्बुभिः । पयस्यमाने तत्रैष, हस्ती बकस्थलायते ॥ ११७ ॥
॥ ५३॥