________________
चन्द्रप्रभस्वामि चरित्रम्
॥ ५१ ॥
"
तापप्रवेशरक्षार्थमिवोद्यानपरम्परा । व्यूहीभूय स्थिता यत्र, जलयन्त्रैर्मिलध्वनिः ॥ ७७ ॥ स्वशरीरोत्थतापेन, सन्तप्तस्तिग्मदीधितिः । सेवितुं स्पृहयामास, यत्रारामान् हिमालयान् ॥ ७८ ॥ अभ्र' लिह गृहप्रेङ्खत्कोटिसङ्ख्याधिकध्वजे । कस्तूरीच्छटकच्छन्नराजमार्गरजोवजे ॥ ७६ ॥ मणिभित्त्या पणश्रेणिदृश्यान्तगु वस्तुनि । शातकुम्भशिलाबद्ध महेभ्यावासवास्तुनि ॥ ८० ॥ देवयात्रे क्षणव्याजात्कृतशृङ्गारविभ्रमम् । आनन्दिकामिनीवृन्दं यत्रानुयान्ति कामिनः ॥ ८१ ॥ ईदृक्षे नगरे तस्मिन् रमानिलयनामनि । प्रविश्यागाजिनाधीशान वन्दितुं स जिनौकसि ॥ ८२ ॥ तं तथाविधवन्दारु', देवान्मधुरया गिरा । अपश्यत्सागर श्रेष्ठी, पूर्वं तत्र समीयिवान् ॥ ८३ ॥ स देववन्दनाप्रान्ते, व्याख्यानं कुर्वतो गुरून् । दिनकृत्यं गृहस्थानामप्राक्षीदथ तेऽब्रुवन् ॥ ८४ ॥ सुन्यायः पुरवास्तव्यः, सुप्रातिवेश्मिकः पुमान् । शुद्धात्मा प्रातरुत्थाय, परमेष्ठिस्तुतिं स्मरेत् ॥ ८५ ॥ शुचिगात्रांशुक स्त्रिद्विः, सकृद्वाप्यर्हतोऽर्चयेत् । भावनाभावितात्मा तान् वन्दयेश्च यथाविधि ॥ ८६ ॥ ततो गुरुभ्यः श्रद्धालुर्दत्त्वा वन्दनकं शमी । प्रत्याख्यानं विदध्याच्च, वर्ज्यान्नियमयन्निमान् ॥ ८७ ॥ पञ्चोदुम्बर मुख्यांश्चानन्तकायान् जिनोदितान् । चतुष्पय विशेषेण, ब्रह्मचर्यात्तपश्चरेत् ॥ ८८ ॥ जीवाभयप्रदानार्थ, स्मरे देशावकाशिकम् । शृणुयाद्धर्मशास्त्र चागमोक्तं कल्पितं च वा ॥ ८ ॥ अपूर्व ज्ञानग्रहणं कुर्यात् प्रतिदिनं सुधीः । श्रद्दधानो जिनोक्तानि तत्त्वानि परिभावयेत् ॥ ६० ॥
प्रथमः
परिच्छेदः
अजापुत्रक थान्तर्गता
आरामनन्द
नकथा ।
॥ ५१ ॥