SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता आरामनन्दनकथा। अपश्यन् किश्चनाप्यन्यन्निद्राभरमुपेयुषः । तस्यारामभुवोऽगृह्णात् , कञ्चुकं जीवितव्यवत् ॥ ६३ ॥ अथानीय बहिस्थानामाख्याय च यथातथम् । भ्राम्यदनगेलामोदं, तेपामदर्शयत् स तम् ॥ ६४ ॥ कुर्वाणाः स्मितमूचूस्ते, गत्वरेणामुना किमु । यदि नास्त्यपरं किश्चित्तन्मुञ्चैनमपि क्वचित् ॥ ६५॥ आरामनन्दनाऽभाग्यान्न मुमोच स तस्करः। विभातायां विभावों, तेऽथ जग्मुः पृथक् पृथक् ॥६६॥ आरामसूरथोत्तस्थौ, भास्करेऽभ्युदिते सति । निमीलिताक्ष एवायं, प्रन्थि स्प्रष्टुं कर न्यधात् ॥ ६७॥ भाग्यशून्यमिवात्मानं, ग्रन्थिशून्यं ददर्श सः । नष्टनिद्राश्रमो भीतः, समुत्तस्थौ ससम्भ्रमः ।। ६८ ॥ स्वां पटीं विरलीकृत्य, सोऽपश्यच्छ्यनावनिम् । अपश्यतश्च तस्यागान मूर्छा कञ्चुकमूच्र्छया ॥ ६६ ॥ स्वयमाश्वस्य निःश्वासांश्चिक्षेप वेपमानहत । प्रपाया बहिरन्तश्च, नाद्राक्षीत् कञ्चुकं कचित् ॥ ७० ॥ धत्तूरित इवैशिष्ट, तच्छून्यामपि मेदिनीम् । निश्चितं गतसर्वस्वो, धीरोऽपि ग्रहिलीभवेत् ॥ ७१ ॥ अहो ! दैवं विपर्यस्तं, ममैव नापरस्य हि । दित्सुः प्रियावियोगं मेऽवस्था दुस्थां चकार यत् ।। ७२ ॥ अन्यथा कथमहाय, निनाय नाविकस्तरीम ? । प्रियोपायनभूतं मे, जहे वा कोऽपि कञ्चुकम् ।। ७३ ॥ नाहं हि देवहतकः, स्वस्थानं गन्तुमुत्सहे । नान्यः स्यात्कञ्चुकस्तादृक् , कल्पद्रुकुसुमेलिना ॥ ७४ ॥ चेत पुनभ्रंमता कापि, कञ्चुको लभ्यते मया। देवतानिर्मितो नैष, कालेनापि विनञ्जयति ॥ ७५॥ तदहं प्रविशाम्येतत् , पुरं सुरपुरोपमम् । ध्यात्वेति परितः पश्यंश्चचाल स पुरं प्रति ॥ ७६ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy