SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथमः परिच्छेदः चरित्रम् अजापुत्रक| थान्तर्गता आरामनन्द नकथा। भवत तावत् पश्यामि, क्वैषा यातीति चेतसा ? । मुक्त्वा च नाविक नावि, स तामन्वलगत्स्वयम् ॥ ४ ॥ नर्मदातीरमध्यास्ते, कालिका नाम देवता । तस्या आयनने स्त्री सा, जगामाऽऽरामसूश्च सः॥ ५० ॥ सा तं कुसुमनिर्मोकं, कालिका पर्यधापयत् । ऊचे कृताञ्जलिर्देवि !, मम क्षेमकरा भवेः ॥ ५१ ॥ इत्युक्त्वा सा विनिःसृत्य, बहिदु तपदं ययौ । अभूनिर्माल्यमित्येष, देव्याः कञ्चुकमत्रहीत् ॥ ५२ ।। ततश्च हर्षवान् यावदभ्येति सरितस्तटम् । न तावन्मङ्गिनी नापि, नाविकं तत्र पश्यति ॥ ५३ ॥ इतस्ततश्च शब्दायमानो नाविकमुच्चकैः । नापश्यत्तं न लेभे च, तस्य प्रतिवचस्ततः ।। ५४ ॥ गतः क्वापि दुरात्माऽयं, मामुत्सृज्येह शत्रुवत् ? ! गृहीतकञ्चुकः क्वाहं, यामिन्यां यामि चाधुना ? ॥ ५५ ॥ इत्यन्तःखेदमापनस्तदैव क्वापि पत्तने । गत्वा बाह्यप्रपायां हि, सुष्वाप श्रमभागसौ ॥ ५६ ॥ इतश्च दस्यवः केऽपि, भ्रमन्तः परितः पुग्म् । प्रपायां तत्र ते जग्मुर्निशायां सर्वंगा हि ते ॥ ५७ ॥ अथैकः प्राह कोप्येष, दिव्यः परिमलोत्र भोः। तत् सम्भाव्यः कश्चिदत्र, पुमान् भोगी समं स्त्रिया ।। ५८ ॥ सज्जा भवत तद्ययं, वन्देन ध्रियते ह्यसौ। चेन्न किश्चित्तथाप्येष, कर्त्ता नः सफलां निशाम् ॥ ५४॥ इति निभृतमालोच्य, तन्मध्यात्कोऽपि तस्करः । स्वरूपमनुकृत्याथ, अपान्तः प्राविशच्छनैः ॥ ६॥ जिघन् भूमि परिभ्राम्यनपश्यत्सुप्तमेव तम् । उपेत्य श्लथग्रन्थिस्थमघ्रासीत् पुष्पकञ्चुकम् ॥ ६१ ॥ स्फोटयन्तं घ्राणं गन्धमाघ्राय क्षणमद्भुतम् । निमालयन् धनाढ्य षोऽस्पृशत्कटिकरादिकम् ॥ ६२॥ ॥४६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy