SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रक. थान्तर्गता आरामनन्दनकथा। . लब्धाधिकारो ग्रीष्मतुः, कुस्वामीवोपतापयन् । अन्यदाऽभूत्ततः शूरो, व्यापारयन् करान् खरान् ॥ ३६॥ व्यजनमरुतां सापत्न्येनाऽनिलः किल तापभृद्रजनिवनितासाम्याधिक्यात क्रधा ववृधे दिनैः। प्रहरति कृतच्छायासेवान् रविः कुहनः करैः, शयितुमनलं श्वासोऽप्यन्तर्बहिश्च गतो न्यधात् ॥ ३७ ॥ आरामनन्दनः पल्ल्या, समानगुणरूपया । रममाणोऽन्यदायासीन्नर्मदा जलकेलये ॥ ३८॥ क्रीडत्यस्मिंस्तया साधं ग्रीष्मतौं नमदाजले । स्रोतःप्रतीपमभ्यागात् , पुष्पग्रथितकञ्चुकः ॥ ३६ ॥ यान्तं चित्रकवद्वीक्ष्य, पद्मावत्याह कौतुकात् । प्राणेश ! पश्य पश्याऽयं, कथमायाति कञ्चुकः ? ॥४०॥ कल्पद्रुकुसुमामोदवासाढयनर्मदाजलः। स पुष्पकञ्चुको मध्यस्रोतमायाति दूरतः ॥ ११ ॥ तं तथा वीक्ष्य सा प्राह, कौतुकोत्फुल्लमानसा । स्वामिन् ! कथश्चिदानीय, ममैनं देहि कञ्चुकम् ।। ४२ ॥ कथमभ्येत्ययं तन्त्रि !, शरवद्यान् महाजले । पत्येत्युक्ते जगादेषा, नर्मदा तर्हि मे गतिः ॥ ४३ ॥ इत्याग्रहग्रहग्रस्ता, सा नोझत्यात्मनो वचः । आरामसूस्तदाऽऽरुह्य, नावं कञ्चुकमन्वगात् ॥ ४४ ॥ आरामनन्दनोऽन्वेति, यथा यथा तथा तथा । शीघ्रशीघ्रतरावेगः, कञ्चुको याति हंसवत् ॥ ४५ ॥ बभूव रजनी नद्यामित्थं हि गच्छतोस्तयोः । दवीयोदेशतीरेऽथ, किश्चिदस्थात् स कञ्चुकः ॥ ४६॥ आराममूस्तमादातुं, किल व्यापारयत्करम् । तत्कञ्चुकशिराः काचित , स्त्री नीरान्निरगावहिः ॥ ४७ ॥ आरामनन्दनो दध्यावहो । किमिदमद्भुतम् ? । यददृष्टचरी नद्या, मग्नेयं कियदागमत् ॥ ४८ ॥ ॥४८॥ K ॥४८॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy