SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥ ४४ ॥ यान्तीं मृच्छक्षणादाश्वासितां तां श्वसतीं पुनः । प्रेक्ष्य राज्ञो मनोप्यासीत्तद्दशानुविधायकम् ॥ ५४६ ॥ अथाकस्मात्कुतोऽप्यागाद्, वैद्यो वैदेशिकस्तदा । किमेतदिति वाचा च, तेन मैक्ष्यत रोगिणी ॥ ५४७ ॥ विमृश्यान्तः किमप्याह, रोगोऽस्या मम गोचरः । राजा सहर्षमाहैनं, यद्येवं त्वं यतस्व तत् ॥ ५४८ ॥ सकारुण्यमिवाहेष, यदानयत सम्प्रति । केवलाजाक्षीरपुष्टनर जिह्वान्तजाङ्गलम् ॥ ५४६ ॥ अचिन्तयत्ततो राजा, हहा ! कीदृगुपस्थितम् । यजिह्वान्तपलं ग्राह्म स म्रियतेऽन्यथा त्वियम् ॥ ५५० ॥ पुनर्विमृश्य ज्ञात्वा चात्मानमजास्तनन्धयम् । रोमाञ्चाश्चितगात्रोऽभूद्राजा पुनरचिन्तयत् ।। ५५१ ॥ प्रतिज्ञाता प्रतिज्ञा मे, जिह्वया ह्यनयैव तु । यद्यनयैव पूर्णा सा, तत्कि ना भूत् प्रियं मम १ ॥ ५५२ ॥ किञ्च - राज्येनाथ शरीरेण, सन्तोऽन्यमुपकुर्वते । म्रियमाणां स्त्रियं जिह्वाखण्डेन किमहं न हि १ ॥ ५५३ ॥ ततश्वाशोधयित्वाऽपि, पुरुषं तं तथाविधम् । आदाय शस्त्रिका पाणौ, सावष्टम्भो नृपोऽवदत् ॥ ५५४ ॥ अहो ! वैद्याऽहमेवास्मि, जातोऽजाक्षीरपोषितः । मजिह्वान्तपलेन त्वमुल्लाघां कुर्विमां स्त्रियम् ।। ५५५ ।। हस्तेनैकेन जिह्वाग्रं, धृत्वाऽन्येन च शस्त्रिकाम् । यावत्तां छेत्तुमारेभे, तावन्नभस्यभृद्वचः ।। ५५६ ।। अलममङ्गलाधानजिह्वाच्छेदेन भूपते ! । पीयूषवर्षिणी सैषा, चिरं प्रीणयतां प्रजाः ॥ ५५७ ॥ विरासीत्ततो देवी, दिव्यालङ्कारशालिनी । स वैद्यो रोगिणी सापि, क्वाप्यगात्तत्क्षणादपि ॥ ५५८ ॥ सम्भ्रान्तचिन्तयामास राजा किमिदमद्भुतम् १ | कैषा देवी ? क्व सा मन्दा स्त्री ? वैद्यश्च ययौ क्व सः १ ॥ ५५६ ॥ प्रथमः परिच्छेदः सच्वेऽजा पुत्रकथा ॥ ४४ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy