________________
चन्द्रप्रमस्वामि चरित्रम् |
प्रथमः परिच्छेदः
अजापुत्रकथान्तर्गता आरामनन्दनकथा।
इति समम्भ्रमं भूपं, देवी सा प्राह भूपते ! । श्रीमञ्चन्द्राननापुर्या, अधिष्ठात्र्यस्मि देवता ॥ ५६० ॥ मया ते दत्तराज्यस्य, परीक्षयं कृता खलु नियंढोऽसि च सत्वेन, चिरं राज्यं कुरुष्व तत् ॥ ५६१ ॥ इत्याशीर्वादमुखरा, प्रदायाभरणानि सा । ययौ स्वस्थानमेषोऽषि, राजा पालयति प्रजाः ॥ ५६२ ॥ रात्रावजासुतः शय्याविश्रान्तः श्रान्तमानसः। अनागच्छन्त्यां निद्रायां, पप्रच्छ सुहृदं कथाम् ॥ ५६३ ॥ सोप्याक्षेपकथामहद्धर्माश्रितां मृदृक्तिभिः । शृणुतेति हि भाषित्वा, स्पष्टमाचष्ट सत्कथाम् ॥ ५६४ ॥
(ग्रन्थानं ६०७) तथाहि॥ आरामनन्दनकथानकम् ॥ पुरं लक्ष्मीपुरं नाम, धाम धर्मनयश्रियाम् । अस्ति तीर्थकृतां हम्बर्धम्यः साधुभिरावृतम् ॥ १॥ समुद्रश्लाषितैः काम, केशवैरिव जिष्णुभिः । लब्धगोत्रप्रतिष्ठेश्च, शङ्करै रिव चेश्वरैः॥२॥ तत्त्वार्थबोधिभिवौंद्वैरिव च क्षणलालसैः। विन्ध्याचलैरिवात्युच्चैः, सदा नर्मदयावृतः ॥ ३ ॥ सुवर्णमेरुभिरिव, सर्वदा सुरमोदितैः । कामैरिव सुशृङ्गारैर्जनचित्तनिवासिभिः ॥ ४ ॥ वैतादय रिव सकलधौतकूटैः सदोज्ज्वलैः । पुरुषपुङ्गवैर्यत्तु, सदैवोपशोभितम् ॥ ५ ॥ चतुर्भिः कलापकम् ॥ भानुयोम्नीव सत्तेजा, राजा तत्रास्ति विक्रमः । यस्योदये द्विषद्धृका, जग्मुर्भू धरकन्दराः ॥ ६ ॥ शश्वन्महाजये शूरः प्रतापश्च महीपतेः । प्रेझेन्महारयो वाजिसार्थः पदातयोऽपि च ॥ ७ ॥
॥४५॥
॥४५॥