________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथम: परिच्छेदः
सत्त्वेजापुत्रकथा
ततश्च राजलोकेषु, पूज॑नेषु नियोगिषु । राजन्येषु स्वस्वौचित्योपनीतोपायनेष्वथ ॥ ५०५॥ शङ्खध्वनौ प्रवृत्ते च, जयवादिषु बन्दिषु । वादिते पञ्चशब्दे च, स्त्रीगीतमङ्गलध्वनौ ॥ ५०६ ॥ पूर्वदिकस्थापितस्वर्ण सिंहासने निवेश्य तु । अजापुत्रस्य मन्च्याद्या, राज्याभिषेकमादधुः॥ ५०७ ॥ त्रिभिर्विशेषकम् ॥ राज्ञा च सचिवालोचाव्यापाराः स्वनियोगिनाम् । आदीयन्त तथाऽन्योऽपि, सच्चक्रे सकलो जनः ॥ ५०८ ॥ चन्द्रापीडनृपादेशान्मार्गरक्षामुपेयुषः । ससैन्यान्मण्डलेशान् स, प्रावेशयत्प्रसादतः ॥ ५०६ ॥ सर्वमप्यात्मसात्कृत्वा, पूर्व राज्यपरिग्रहम् । स राज्यं पालयामास, स्वराज्यमिव वासवः॥ ५१०॥ रूपलावण्यसम्पूर्णा, भूभुजां बहुकन्यकाः । स्वयंवरतया याताः, पर्यणैषीदजासुतः ॥ ५११ ॥ अथ
कोकिलाकूजितराशु, जाग्रत्पञ्चेषुभूभुजि । आपानगोष्ठीमिलितगुञ्जन्मधुपकेतके ॥ ५१२॥ द्राक्षामण्डपविस्तारालब्धमध्याकरोचिषि । पादावर्तपतत्पाथः, शीतशीकरशाद्वले ॥ ५१३॥ दक्षिणानिलकल्लोललोलन्माकन्दमञ्जरौ । दोलाकेलिलुलद्धारपौरस्त्रीगीतशर्मणि ॥ ५१४॥ मानिनीमानसन्धानच्छेदमेदुरनमणि । हल्लीसकभ्रमिभ्राम्यत्तरुणीजनविभ्रमे ॥ ५१५॥ एवं विधवरारामे, रामाजनपरिष्कृतः । वसन्तसमये प्राप्ते, ययावजासुतो नृपः ॥ ५१६ ।। पञ्चभिः कुलकम् ॥ तस्मिन् सान्तःपुरे तत्र, क्रीडति स्वेच्छया नृपे । श्लोकमेकं पपाटेको, दूरस्थः कोऽपि मानवः ।। ५१७ ॥ यत्र तिष्ठसि नित्यं त्वं, वसन्तीं तत्र मातरम् । अदृष्टापि हि भुंक्षे चेत्तत्त धिग हंस ! हंसताम् ॥ ५१८॥
॥४१॥
।॥४१॥