________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः परिच्छेदः
सत्वेऽजापुत्रकथा
चिन्तयित्वेति राजानमनुज्ञाप्याचलत्पुरात् । तैरश्वेभनरैर्लक्षसङ्खथैः समकरैयुतः ॥ ४६५ ॥ इतश्च तत्पुरीराजा, चन्द्रापीडो निशात्यये । सस्मार देवतावाचमात्मघातनिवेदिनीम् ॥ ४६६ ॥ विममर्श च यः पूर्व, कालो मे कथितस्तया । तस्यावधेस्तु पर्यन्ते, पक्ष एकोऽवसीयते ।। ४६७॥ तदधुना समायातं, दैवज्ञं सत्यनामकम् । पृच्छामीत्यवधार्यान्तः, प्रातर्भूपस्तथाऽकरोत् ॥ ४६८ ॥ सोऽपि ग्रहवलं वीक्ष्य, निश्चित्य च यथातथम् । समाख्यद् भूभुजे राजन् !, पक्षान्ते मरणं तव ॥ ४६६ ॥ धीरोऽपि हि नृपो वाचमेतामाकर्ण्य सत्वरम् । मृत्युनेव तदालीढो, बभूव गतचेतनः॥ ४७० ॥ ततः स्वरक्षणोपायान् , विधाय स विशेषतः । अजापुत्रस्य शुद्धयर्थ, प्राहिणोत् सर्वतश्चरान् ॥ ४७१॥ न कोपि च चरः सैन्यं, लक्षसङ्ख्य समापतत् । आख्यत्ततो नृपः किश्चिच्चित्ते स्वास्थ्यमुपेयिवान् ॥ ४७२ ॥ नित्यं कारयतः शुद्धि, चन्द्रापीडस्य भूपतेः। पक्षान्तदिवसः साक्षान्मृत्युकाल इवागमत् ॥ ४७३॥ ___इतश्चापराधे कस्मिन् , सुबुद्धिः सचिवो निजः । चन्द्रापीडनृपेण प्राक् , पुरान्निर्वासितोऽभवत् ॥ ४७४ ॥ देशाद्देशं परिभ्राम्यन् , सुबुद्धिः सम्मुखोऽभवत् ।। अजापुत्रस्य स्वपुरी, प्रति यातस्तदाध्वनि ॥ ४७५ ॥ सुबुद्धिर्वीक्ष्य तं लक्षपुरुषैः केवलवृतम् । कलभैयू थेशमिव, हृष्टश्चेतस्यचिन्तयत् ॥ ४७६ ॥ यं किलाकथयत् पूर्व, राज्ञे सा देवता तदा । तस्य मृत्युकरः सोऽयमभ्येति खलु पूरुषः ॥ ४७७॥ चन्द्रापीडो मयोच्छेद्यः, प्रतिज्ञेति ममाधुना। एनमाश्रित्य पूर्णा स्यादित्युपेत्य ननाम तम् ॥ ४७८॥
॥३८॥
॥३८॥