________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः परिच्छेदः
सत्त्वेऽजापुत्रकथा
विपक्षग्रीष्मसन्तप्तं, तत्पुरं तेन भूभुजा । सहसायाताब्देनेव, निर्वापितमभृत्तदा ॥ ४३७॥ विमलवाहनो राजा, पुरेऽस्मिन्निति डिण्डिमे । मन्त्रिणा वादितेऽस्माकं, भीरेषेत्यरयोऽहसन् ॥ ४३८ ॥ पूरोधपितृशोकाभ्यां, ज्वलन्नन्तरुवाच तम् । अजापुत्रं रिपूच्छेदे, राजा विमलवाहनः ॥ ४३६ ॥ प्रत्यवोचदसौ राजन् !, दूतेनादिश शात्रवान् । यत् प्रातमङ्गले वारे, युधि सन्नह्यतामिति ॥ ४४० ॥ प्रपद्य तद्वचो दतात्तत्तथैवाकरोन्नृपः । विना गजं क्व रोक्ष्यामीत्यूचे च बहुखेदभाक् ॥ ४४१॥ प्रतिपन्नस्य निर्वाहं, कुर्वनजासुतस्ततः । तत्सरःपाथसा हस्तिपुरुषं हस्तिनं व्यधात् ॥ ४४२ ॥ हस्तिनं वीक्ष्य तं राजा, पितरं स्वमिवोच्चकैः । इदानीं रिपुसैन्यं तद्भनमेवेत्यवोचत ॥ ४४३ ॥ गजं जयमिवारुह्य, भूपः सर्वाभिसारतः। निस्ससार पुरायोडुमिन्द्रो दैत्यैरिवारिभिः ॥ ४४४ ॥ अजापुत्रस्तु शत्रणां, यत्रेभाश्वं पयः पिवेत् । तस्मिन् सरसि तच्चूर्ण, क्षिप्त्वा पाल्यामुपाविशत् ॥ ४४५ ॥ पयः पातुं तदारीणां, बहाश्वेभमगात् सरः । जातं च चूर्णमाहात्म्यात्पुरूपेणकहेलया॥ ४४६॥ लक्षसङ्ख्य तदाश्वेभं, पुरुषीभूय सत्वरम् । तच्चूर्णेन वशीभूतमजापुत्रमुपेयिवान् ॥ ४४७ ॥ विना चाश्वेभसैन्यं ते, दंष्टाहीना इवोरगाः। स्फटाटोपं विधायेंव, खले योद्धमुपाययुः ॥ ४४८॥ विज्ञाय तत्स्वरूपं स, राजा विमलवाहनः । दधावे सम्मुखस्तेषामुपायो बलवान् खलु ॥ ४४६ ॥ पृथिवीस्थं तमस्काण्डं, नभस्थेनेव भास्वता। तेनेभस्कन्थभाजा तद्विधस्तं शात्रवं बलम् ॥ ४५० ॥
॥३६॥