________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः | परिच्छेदः
|सत्त्वेऽजापुत्रकथा
हनूमानिव सीतायाः, शुद्धिमस्य शुक ! द्रुतम् । गत्वा विज्ञपयामात्यं, सावष्टम्भो भवेद्यथा ॥ ४२३ ॥ कुमार ! त्वं स्वयं लेखं, लिखित्वा क्षेमशंसिनम् । शुकायाऽर्पयेत्युक्तोऽथ, तेन सोऽपि तथाऽकरोत् ॥ ४२४॥ शुकश्च तस्य वात्सल्याच्चिरस्थितिममत्वतः । लेखमादाय गत्वा च, मन्त्रिणेऽथ समार्पयत् ॥ ४२५ ॥ कुमारस्य सतः शुद्धौ, कथितायां शुकेन सः । सावष्टम्भः सभायां तं, सहर्ष मन्त्र्यवाचयत् ॥ ४२६ ॥ शुकानुपदमेषोऽहमागत्यारीनिहन्मि तत् । महामात्य ! त्वया भाव्यमकुतोभयचेतसा ॥ ४२७ ॥ वाचयित्वेति स प्रोच्चैर्विशेषाद्गतभीरभूत् । सावष्टम्भे प्रभौ पृष्टे, पत्तयः स्युरभीतयः ॥ ४२८ ॥ भारण्डपक्षिणो रूपं, विधाय गुटिकावशात् । पक्षान्तस्तानिधायागात् , पुरे तस्मिन्नजासुतः॥ ४२६ ॥ आगतो बहिरद्राक्षीत , सैन्यं तत्परितः पुरम् । कुमारोऽरिवधोपायं, पप्रच्छाजासुतं ततः ॥ ४३०॥ । आत्तात्मरूपः स प्राह, सामसाध्यो न दण्डयते । तत् साम्नैव मया साध्यास्तवैते रिपवः खलु ॥ ४३१॥ विना रिपुवधं न स्यात् , पितृवधप्रतिक्रिया । इति चेन्मन्यसे तत् श्वः, कर्ताऽस्मि पश्यतस्तव ॥ ४३२॥
ओमिति प्रतिपद्यासौ, कुमारस्तद्युतस्तदा । समागाद्गोपुरद्वारे, तदध्यक्षमुवाच च ॥ ४३३ गत्वा हि महामात्यं, यथा शुकनिवेदितः । स पुमान् द्वारमध्यास्ते, ततोऽसौ तत्तथाऽकरोत ॥ ४३४॥
सहर्षसम्भ्रमो मन्त्री, स्वयमागत्य तत्र हि । नत्वा कुमारमादाय, साध तैः सौधमागमत् ॥ ४३५॥ .. वृत्तान्तं कथयन् पृच्छन् , मन्त्री रात्रि निनाय ताम् । प्रातरुत्साहपूर्व च, स्वे राज्ये तं न्यवीविशत् ॥ ४३६ ॥
॥३५॥
| On
॥ ३५॥