________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
सत्त्वेऽजापुत्रकथा
पृष्टः स आगतो राज्ञा, कुतो हारोऽयमद्य ते ? । अयच्छन्नुत्तरं बघा, क्षिप्तो भूमौ वमन्नसृक् ॥ ३६८ ॥ बहुबुद्धिस्तु तच्छु त्वा, गृहीत्वा तमजासुतम् । उपेत्य भूपमाचख्यौ, राजन् । हारोऽयमस्य हि ॥ ३६६ ॥ मोचयित्वा श्रेष्ठिसुतं, राजाऽपृच्छदजासुतम् । त्वयाऽयं चोरितो हारः, स प्राह चोरितो मया ।। ३७० ॥ अरे ! मारयत स्तेनमेनमाश्विति भूभुजा | आदिष्टे प्राह स स्वामिन्नेकं शृणु वचो मम ॥ ३७१ ॥ परवस्तुग्रहीता यः, स मार्यों भवतां किल । एतल्लेखय कुत्रापि, यतोऽस्त्यन्यो हि तस्करः ॥ ३७२ ॥ अविज्ञाय वचस्तस्य, तत्क्र द्धोऽलेखयन्नृपः । एतनिर्वाह्यमित्युक्त्वाऽजापुत्रः प्राह भूपतिम् ॥ ३७३ ॥ ममैते वाससी तेन, स्तेनस्त्वमसि भूपते ! । यदि नो मन्यसे तत्त्वं, पारम्पयं विशोधय ॥ ३७४॥ पारम्पर्य नृपो ज्ञात्वा, कोपताम्राननोऽब्रवीत् । अर्पितग्राहका न स्मस्तेन त्वमसि तस्करः ॥ ३७५ ॥ निर्भयत्वाद्वदन्नेवमजासूरवदन्नृपम् । अर्पितग्राहकत्वाच्च, नाहमप्यस्मि तस्करः॥ ३७६ ॥ यतः
विपदादर्शनिमग्नः, समधिकसश्रीकतां भजेबीरः।
पयसि प्रतिबिम्बधृतो, वहिर्न किमुच्छिखः स्फुरति १॥ ३७७ ॥ कोशाध्यक्षं ततो राजा, समाहूयान्वयुङ्क्त तम् । सोप्याख्यद्यन्मया हारः, कुमार्य तु समर्पितः ॥ ३७८ ॥ तदेवोद्यानतो भूपो, गत्वा वेश्माजुहाव ताम् । अपृच्छच्च सुतां वत्से !, हारः पाश्ऽस्ति ते न वा १॥ ३७६ ॥ रुदती प्राह सा तात!, क्रीडावाप्यो पुरा मम । क्रीडन्त्यास्तत्क्षणाद्धृत्वा, क्वाप्यगात् केलिमकेटः ॥ ३८० ॥
॥३१॥
V
॥३१॥