SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः सत्त्वेऽजापुत्रकथा लब्धं चूर्ण च येन स्युस्तियञ्चो मानवाः खलु | मानवाः स्युश्च तिर्यश्चो, येन तज्जलमस्ति मे ॥ ३५५ ॥ तियश्चश्च नरीभूताश्चूर्णान् मे स्युर्वशंवदाः । सरोम्भसा नरो व्याघ्रः, स्यात्तिर्यक् ताडगेव हि ॥ ३५६ ।। प्राप्तश्च नगरी सोऽगाबहुबुद्धिवणिग्गृहम् । ततश्च भव्यमूर्त्तित्वात्तस्य स्थानमदाद्वणिक् ॥ ३५७ ॥ स आत्मना तृतीयोऽस्थाच्छेष्ठिगेहे स्ववेश्मवत् । अजासूः श्रेष्ठिने हारं, यत्नरक्षार्थमापयत् ॥ ३५८॥ चूर्णग्रन्थि पयश्चापि, शाखामृगनराय सः । समप्य नखशुद्धयर्थ, दिवाकीर्तिकुटी ययौ ॥ ३५६ ।। तेनोद्धृत्तनखो दत्त्वाऽर्थमजासूरगाद्गृहम् । वाससी पतिते ते तु, भूमौ प्रैक्षिष्ट नापितः ॥ ३६॥ कणावेतौ तु कीदृक्षावित्यादात् पाणिनाऽथ ते । कथं दिव्यांशुकयुगमिति स्पर्शाद्विवेद सः ॥ ३६१ ॥ गृहीत्वा ते च मूल्येन, कस्यापि वणिजो ददौ । सोऽपि चोपायनीचक्रे, विक्रमस्य महीपतेः ॥ ३६२॥ वसन्तसमये प्राप्ते, वाससी ते समुज्ज्वले । परिधायेभमारुह्य, क्रीडोद्यानं ययौ नृपः ॥ ३६३ ॥ दक्षिणानिलसंस्पर्शोन्मीलद्रोमोद्माः स्त्रियः । प्रदोषे वीक्ष्य राजाऽत्र, हर्षोत्कर्षावाच सः॥३६४ ॥ माल्याश्चिताभिमुखसिद्धवर्धकुचाभिघातात् सुधांशुजलयन्त्रकृताभिषेकः। पीत्वाऽङ्गनावपुषि धर्मपयोऽत्र तापो, नादात्पदं तदुदकं नटयन्नभस्वान् ॥ ३६५ ॥ इतश्च बहुबुडेस्तु, पुत्रोऽपि मतिसागरः । कण्ठे निधाय तं हार, क्रीडोद्यानं जगाम सः ॥ ३६६ ॥ तत्रायान्तं ललत्कण्ठहारं तं वीक्ष्य भूपतिः । हारो मदीयोऽयमिति, तमाह्वत् पत्तिभिद्रुतम् ॥ ३६७ ॥ K ॥३०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy