SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीय: परिच्छेदा ततश्च सिद्धचोरोऽपि, तत्रागाद्भावनावृतः। प्रणिपत्योपविष्टश्च, बभाषे ज्ञानिना स्वयम् ॥ ४१ ॥ महात्मन् ! सिद्ध ! यच्चक्रे , विशुद्धो नियमस्त्वया । लप्स्यसे तेन निर्वाणसम्पदं पदमात्मनः ॥ ४२ ॥ इति ज्ञानिगिरा तस्य, कणे प्रविष्टमात्रया। निर्वास्य घातिकर्माणि, केवलज्ञानमाहितम् ॥४३॥ एत्य देवतया लिङ्गऽपिते केवलिनस्ततः। उपविष्टः समे स्वर्णसिंहासने स केवली ॥४४॥ ततो ज्ञानी स्वयं चख्यौ, प्रतिबोधाय देहिनाम् । सिद्धोऽयं नियमान् सम्यक् , प्रपाल्य निर्मलोऽभवत् ॥ ४५ ॥ अस्मद्वाचि श्रुतायां च, भाव्यस्य केवलं ततः । वयमत्रागताः स्वेन, जातमस्यापि केवलम् ॥ ४६॥ इतीत्थं चित्तपश्चाक्षनिग्रहानियमो हृदि । योऽपि सोऽपि ग्रहीतव्यः, पुण्यानुबन्धकृन्नृभिः ॥ ४७ ॥ ॥३५६॥ IK विंशतिस्थानकस्वरूपः। ॥ इत्यभिग्रहे सिद्धकथा । श्रुत्वेति देशना पद्मः, संसारोत्तारणक्षमाम् । अग्रहीत स परिव्रज्या, युगन्धरगुरोः पुरः॥१॥ विहिताभिग्रहो दान्तो, विहितेन्द्रियनिग्रहः । स्वविग्रहेऽप्यनाकाङ्क्षश्चिरं सोऽपालयद्वतम् ॥ २ ॥ ततश्च तीर्थकुनामगोत्रकर्मार्जितं दृढम् । साधुना तेन पद्मन, विंशत्यास्थानकैरिति ॥ ३ ॥ अयशस्त्यागभूतार्थस्तवाभ्यामहेतोऽर्चनम् [१] । सिद्धानां विह वात्सल्यं, सम्यक् सिद्धत्वकीर्तनम् [२] ॥ ४॥ चालयत्याद्यनुग्रहाद्भक्तिः प्रवचने तथा [३] । वस्त्रादिदानस्तुत्यादिवात्सल्यं किल सद्गुरोः [४] ॥ ५॥ ॥३५६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy