SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ न्द्रप्रम द्वितीयः परिच्छेदः वामि चरित्रम् ।३५४॥ अभिग्रहे सिद्धकथा। एनमेव किलादेशं, करिष्येऽहं खलु स्वयम् । अनेनाप्तेन पुत्रायादिष्टं स्यादायतौ हितम् ॥ १३ ॥ इति ध्यात्वा स तं वृद्धमुपेत्य च प्रणम्य च । भक्त्योवाचोपदेशस्ते, प्रतीष्टः शिरसा मया ॥१४॥ परमालम्बनं किश्चिदादिशाऽस्मन्मनः स्थिरम् । स्यादित्युक्तेऽमुना वृद्ध, आख्यत्पश्चनमस्कृतिम् ॥१५॥ पत्रे क्वापि लिखित्वा ता, सिद्धचौरो गृहान् ययौ । स्वमनःश्रद्धया सम्यग् , जग्राहाभिग्रहानिति ॥१६॥ पापकार्य मया कार्य, न वर्षासु स्थिरात्मना । नित्यमेकासनत्थेन, गुण्या पञ्चनमस्क्रिया ॥१७॥ प्रारेमे च तथैवष, प्रावृषि त्यक्तचौरिकः । पञ्चनमस्कृतीश्चित्तनिरोधात् परिवर्तयन् ॥१८॥ तस्मै चाभिग्रहस्थाय, कुटुम्ब क्र ध्यति क्षणात । चौर्य कुवैति तस्मिन् हि, पूर्यते तस्य वाञ्छितम् ॥ ११ ॥ खादकत्वाच तल्लोकः, प्रत्यहं द्वेष्टि तक्रियाम् । अन्यदा सिद्धभार्या तत्पत्रं पश्चनमस्कृतेः ॥ २० ॥ गृहीत्वाऽचिन्तयत् पत्रेणानेन विप्रतारितः । मत्पतिस्तरिक्षपाम्येतत् , कूपेऽगाधे क्वचित्ततः ॥२१॥ कार्यार्थमन्यतः सिद्धे, गते सा निर्ययौ गृहात । कृपं प्रति चचालाशु, श्मशानोपान्तवत्मना ॥ २२ ॥ ___ इतश्च कस्यचिद्ग्रामपतेर्दयितयैकया । अन्तर्वल्या सपल्या द्रागीय॑या प्रददे विषम् ॥ २३॥ विषेण गुर्विणी साथ, पपात मृर्छयाऽवनौ । पितृश्वशुरवर्गश्च, ददौ तस्या विषौषधम् ॥ २४ ॥ नाभूत्तेन गुणः कोऽपि, न चाप्यन्येन केनचित् । ववृधे किन्तु मृोऽस्यास्ततोऽभूद्गतचेतना ॥ २५ ॥ मृतेति संस्कारं कत्तु, निन्यस्तत्स्वजना बहिः। कूपासन्ने श्मशानेऽत्र, काप्येका व्यन्तरी ततः ॥ २६ ॥ ॥३५४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy