________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीया परिच्छेदः
॥३४२॥
अतपसि मानपुञ्जकथा।
ततश्च कीर्तिराजेन, शुकेन सहिता नराः। प्रेषितास्तत्र कान्तारे, तामानेतुं क्षणादपि ॥ २७ ॥ मांसाहारे च सा मानपुञ्ज विरक्तमानसा । प्रोक्ता शुकेन हे सुभ्र ., राजपत्नी भवाधुना ॥२८॥ चल वज्रपुरे कीर्तिराजस्त्वां स्वीकरिष्यति । भुक्ष्व संसारसौख्यानि, धर्मार्थकाममागू भव ॥ २६ ॥ शुके प्रत्ययिता साथ, मानपुञ्ज गतेऽन्यतः । सशुकैः पुरुषः सार्च, कीर्तिराजगृहं ययौ ॥३०॥ पुण्येन वल्लभा साऽभूत , कीर्तिराजस्य सर्वदा। ततो मनसि सा दध्यो, तदेतत्तपसः फलम् ॥ ३१ ॥ तया प्रत्ययमाख्याय, तपसि प्रेरितस्ततः। राजलोको यथाशक्त्या, चतुर्मासे तपो व्यधात् ॥३२॥
इतश्च मानपुञ्जः स, वियुक्तोऽपि तया सह । तत्रैणमांसलुब्धत्वादनेऽस्थादेककोऽपि हि ।। ३३ ।। वर्षारम्भेऽन्यदा तस्याऽऽकण्ठं मांसस्य भक्षणात् । अमृदुच्छ्वाससंरोधः, पपात निस्सहो भुवि ॥ ३४ ॥ तदैव पूरपूर्णायाः, सरितः स्रोतसा हृतः । वज्राख्यपू:समीपस्थे, तटे क्वाप्यथ सोऽलगत् ॥ ३५ ॥ तदा च कीतिराजस्य, प्रतिस्कन्धिनराः कति । तत्रागतास्तमद्राक्षुर्निन्युश्च दयया गृहान् ॥ ३६ ॥ औषधाधुपचारेण, कथञ्चिजीवितः स तैः । तेषामेव गृहेष्वस्थात्तत्पुञ्यासक्तमानसः ॥ ३७॥ स च तैीयते वोढु, कीर्तिराजसुखासनम् । उच्छिष्टं भोज्यते स्थालक्षालनं कार्यते सदा ॥ ३८ ॥ तत्रान्यदपि यन्नीचकार्य स कार्यते भृशम् । तत्करोति विमृढात्मा, तत्पुत्रीस्नेहलम्पटः ॥ ३९ ॥ कीर्तिराजेऽन्यदा हर्षाचलिते वनमीक्षितुम् । मानपुञ्जः श्वशुरेण, न्ययोज्यत सुखासने ॥ ४० ॥
॥३४२॥