SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीयः परिच्छेद ॥३४॥ अतपसि मानपुजकथा। शुकः प्राह शुकीमद्य, चतुर्मासकपर्व तत् । उपवासोऽद्य मे त्वं तु, भोक्ष्यसे यदि भुक्ष्व तत् ॥ १३ ॥ शुक्याह तदहं नामिभोक्ष्ये स्थास्याम्युपोषिता । भुज्यमानं सदैवास्ते, तत्कार्य सुदिने तपः ॥ १४ ॥ इति शुकशुकीवाचमाकर्ण्य दास्यचिन्तयत् । अहो ! बततयोः पश्य, तिरश्चोनियमः कियान् ? ॥ १५ ॥ उत्पन्ना मानुषत्वेऽपि, तपोऽकार्ष कदापि न । पशून व्यापाद्य खादन्तः, पशवो वयमेव हि ॥ १६ ॥ अद्य तपोदिने त्वाभ्यां, कथिते न मया खलु । भोक्तव्यं नापि पत्येऽस्मै पक्तव्यं मांसमात्मना ॥ १७ ॥ इति निश्चयमादाय, दासी यावत स्थिताऽस्ति सा । तावद्धन्तु मृगं मानपुञ्जः कृतायुधोऽभवत् ॥१८॥ तमाह दासी मा माऽद्य, व्यापादय मृगं हहा !!। कृतं शुकाभ्यामप्यद्य, चतुर्मासीदिने तपः ॥ १६॥ तेन वारितवामेन, प्रत्युत क्रौयमीयुषा । दास्याः सविधमानीय, मृगो व्यापादितो बलात् ॥ २०॥ मांसं पचेति तेनोक्ता, पक्ष्ये नाद्येति साऽब्रवीत् । मया चक्रे तपः सर्वपापारम्भविरामतः ॥ २१ ॥ पक्त्वा स्वेनैव भुञ्जाने, मानपुञ्ज ततः शुकः। दध्यौ द्वाभ्यां श्रुता वाग्मे, परं दासी व्यधात्तपः ॥ २२ ॥ मृगीवेयं वने जन्म, मुधा क्षिपति तन्मया । कर्तव्या कीर्तिराजस्य, राजपुत्रस्य गेहिनी ॥२३॥ निश्चित्येति दिनं तत्र, स्थित्वा सदयितः शुकः । ययौ वज्रपुरे यत्र, कीर्तिराजोऽस्ति राजमः ॥ २४ ॥ एह्य हि शुकराज ! त्वं, स्वागतं भवतः किल । कीर्निराजे वदत्येवं, शुको नत्वाऽब्रवीदिति ॥ २५ ॥ त्वदादेशाच्छुकीमेनामादायागच्छता मया । प्रत्यासन्नवने दृष्टा, स्त्री दिव्यरूपधारिणी ॥ २६ ॥ ॥३४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy