SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः परिच्छेद: ॥३४०॥ अतपसि मानपुञ्जकथा। ॥ अथ अतपसि मानपुञ्जकथा । यस्तु कुर्यान्न शक्त्याऽपि, तपःकर्म सुधर्मकृत् । सोऽपमानपदं गच्छेन्मानपुञ्जपुमानिव ॥ १ ॥ अस्ति पूः कमला नाम, यत्र धर्मरता जनाः । मानपुञ्जाभिधोत्रास्ति, पुमान् गीतप्रियः सदा ॥ २ ॥ द्रव्येणाकार्य गीतज्ञान, प्रगायन् गापयत्यसौ । इत्थं सर्व धनं तेन, भक्षितं गीतमोहिना ॥ ३ ॥ क्षीणद्रव्यो नृणामग्रे, गायनीभृय गायति । यत्तत्र लभते वित्तं, विटभोज्यं करोति तत् ॥४॥ दासीमेकामथादाय, ययौ देशान्तरं प्रति । पुरे ग्रामे परिभ्राम्यन् , गायनत्वेन जीवति ॥ ५॥ कस्यापि राजपुत्रस्य, गीतविश्रम्भमीयुषः । मानपुजेन मुक्तास्रक , चोरिताऽभूदुरात्मना । ६॥ राजपुत्रेण विज्ञाय कलावित्वाद्धतो नहि । किन्तु निर्वास्य मुक्तोऽथ, लज्जया स ययौ वनम् ॥ ७ ॥ फलाहारेण तत्रायं, जीवन् दासीयुतो बने । कलगीतेन हरिणानाकर्षति सुदरतः॥८॥ निष्ठितेषु फलेष्वेष, विश्रब्धान् हरिणांस्ततः । व्यापाद्य बुभुजे मांसं, नित्यशोऽपि स लोलुपः ॥ ४ ॥ तमाह दासी किं न्वेतान् , विश्वस्तान् हंसि नित्यशः१। चलान्यत्र पुरे क्वापि, भविता तत्र भोजनम् ॥१०॥ मांसलुब्धस्तु पापीयान , वनं त्यजति नैष तत् । तल्लुब्धा तदेकप्राणा, न तं त्यजति दास्यपि ॥११॥ एकदा च बने तत्र, शुकद्वन्द्वं कुतोऽपि हि । समागत्योपविष्टं तन्मानपुञ्जाश्रितं तरुम् ॥ १२ ॥ ॥३४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy