SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥३३६ ॥ नागकेतुस्ततो दध्यौ, सङ्घोऽस्त्यत्र चतुर्विधः । जिनबिम्बागमौकांसि, तद्भाव्येषां क्षयो ध्रुवम् ॥ ४६ ॥ उच्चैः प्रासादमारूढः, शिलां स्खलामि पाणिना । इति तां व्यन्तरमुक्तां, तपःशक्त्या दधौ शिलाम् ॥ ४७ ॥ व्यन्तरस्तत्तपःशक्ति, व्यालोक्याकुलमानसः । एत्य तं प्रणनामोच्चैः, सञ्जहार शिलां च ताम् ॥ ४८ ॥ वचनान्नागकेतोश्च व्यन्तरः शान्तिमीयिवान् । राजानं च पट्ट्कृत्य, द्राग् ययौ स्थानमात्मनः ॥ ४६ ॥ तपोलब्ध्या नृपस्यापि, नमस्कर्तव्यतां गतः । नागकेतुरथान्येद्युः, श्रीजैनभुवने ययौ ॥ ५० ॥ यथाविधि जिनेन्द्रस्य, पूजां कुर्वन्तमात्मना । पुष्पमध्यस्थितः सर्पस्तं ददंशाङ्गुलौ दृढम् ॥ ५१ ॥ नागकेतुर्गताऽऽशङ्कस्तं सर्पं न्यस्य कुत्रचित् । जिनेन्द्रमूर्तेः पुरतो, ध्यानमालम्ब्य तस्थिवान् ॥ ५२ ॥ पवनविजयाद्धीनं, ममार तन्मनः क्षणात् । घातिकर्मक्षयाज्जातं, केवलज्ञानमस्य च ॥ ५३ ॥ ततः शासनदेव्याऽस्य, चारित्रलिङ्गमर्पितम् । भव्यान् प्रबोधयन् सैष, विजहार भुवस्तले ॥ ५४ ॥ इह लोके परलोके यदुष्प्रापं च सारभूतं च । तत्तपसा सुलभं स्यात्तपसि यतध्वं ततो भावात् ॥ ५५ ॥ ॥ इति तपसि नागकेतुकथा ॥ द्वितीयः परिच्छेदः तपसि नाग केतुकथा । ॥३३६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy