________________
'चन्द्रप्रभस्वामि
चरित्रम्
॥३३८ ॥
राजा प्राह महाभाग !, देशाचारोऽयमत्र हि । अपुत्रो यो म्रियेताशु, राजा गृह्णाति तद्धनम् ।। ३२ ।। उवाच धरणेन्द्रोऽथ, जीवन्नस्त्यस्य पुत्रकः । राजाह वास्ते १ स प्राह, निखातोऽस्तीह रत्नवत् ॥ ३३ ॥ ततश्च राज्ञोत्खानिते, पुत्रे जीवति रोदिति । आगत्य श्रीसखी दत्ताशीर्वादा तमदीधपत् ॥ ३४ ॥ धृत्वा च धरणेन्द्रोऽपि स्वरूपं तस्य तां कथाम् । राज्ञे निवेद्य बालाय, दत्त्वा हारं तिरोदधे ॥ ३५ ॥ श्रुतया कथया तस्य, राजा विस्मयमादधत् । यत्नेनायं शिशुः पाल्यः, इत्यादिश्य ययौ गृहान् ॥ ३६ ॥ श्रीकान्तस्य कृते शीघ्र, स्वजनैरौर्ध्वदेहिके । नागकेतुरिति प्रीत्या, दत्तं नाम शिशोस्तदा ॥ ३७ ॥ चतुष्पव्य च बालोऽपि चतुर्थं कुरुते तपः । स चतुर्मासके षष्ठं पर्युषणादिनेऽष्टमम् ॥ ३८ ॥ कुर्वन्नेवं सदाप्येष, नागकेतुर्जितेन्द्रियः । यौवनेऽपि ययौ नैव, विकारं मान्मथं क्वचित् ॥ ३६ ॥ जिनेन्द्रपूजा निरतः साधूपासनतत्परः । सामायिक पौषधादिवतान्यपालयत् सदा ॥ ४० ॥ अन्यदा विजयसेन नृपेण कोऽपि सत्पुमान् । चोरीकारकलङ्कन, व्यापादितश्चतुष्पथे ॥ ४१ ॥ आर्त्तध्यानात् स मृत्वाऽभूद्व्यन्तरोऽवधिना ततः । स विज्ञाय स्ववृत्तान्तं, चुकोप भूभुजे भृशम् ॥ ४२ ॥ राजानं च समासीनमागत्यादृश्यरूपभृत् । आहत्य पाणिना बाढं, व्यन्तरोऽपातयद्भुवि ॥ ४३ ॥ व्यन्तरेणाहतो राजा, चक्रन्दोच्चैर्वमन्नसृक् । बभूव च सभालोकः, किमेतदिति भीवृतः ॥ अथासौ व्यन्तरो यावन्नगरं तावतीं शिलाम् । विकुर्व्य गगने लोकं, भीषयामास दुर्गिरा ॥
४४ ॥
४५ ॥
द्वितीयः परिच्छेदः
तपसि नागकेतुकथा |
||३३८ ॥