SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥३३७॥ एकदा तृणगेहान्तः, स्मरन् पञ्चनमस्कृतिम् । पयुं षणादिनेऽवश्यं करिष्ये ह्यष्टमं तपः ॥ १८ ॥ इत्येतद्ध्यानवान् यावदस्त्येष तावदन्यतः | अभूत् प्रदीपनं वायुसाहाय्याद्गेहदीपनम् ॥ १६ ॥ ततो वायुवशाद्वह्वावन्यतो याति सत्वरम् । विमाता तस्य दध्यौ सा, यदुपायोऽस्ति सम्प्रति ॥ २० ॥ अस्मात् प्रदीपनव्याजानिक्षिप्याग्निं कुटीरके । मारयामि सपत्नीजं, मनःशल्यं यदेप मे ॥ २१ ॥ इति दूरस्थया क्षिप्तस्तया वह्निः कुटीरके । स तथैव तपोभ्याने, लीनः प्रज्वलितः क्षणात् ॥ २२ ॥ तपोध्यानैकचित्तत्वादविज्ञायानलव्यथाम् । मृत्वा जज्ञे सुतत्वेन, श्रीकान्तस्य स्वपुत्रिणः ॥ २३ ॥ तप पूर्वसंस्काराच्छ्र ुत्वा पर्युषणादिनम् । चक्रे ऽष्टमतपः स्वेन, पूर्व प्रतिश्रुतं शिशुः ॥ २४ ॥ मूच्छितत्वान्मृतः कृत्वा, पितृभ्यां निहितो भुवि । यावन्नाद्यापि म्रियते तावत् सञ्जीवयाम्यमुम् ॥ २५ ॥ ध्यात्वेति धरणेन्द्रोऽथ, भ्रून्यस्तमेव तं शिशुम् । अरक्षन्निजशक्त्या तु, यथा स म्रियते नहि ॥ २६ ॥ ततश्च तच्छिशुपिता, श्रीकान्तः पुत्रमृत्युना । जाते हृदयसङ्घट्टे, मृत्युमापत् क्षणादपि ॥ २७ ॥ ततो विजयसेनाख्यो, राजा विज्ञाय तं मृतम् । अपुत्रमृतसर्वस्वग्रहणायादिशन्नरान् ॥ २८ ॥ ते राजपुरुषाः क्र ूराः, श्रीकान्तस्य गृहाद्धनम् । गृह्णन्तो धरणेन्द्रेण, पुरुषीभूय वारिताः ॥ २६ ॥ तैरेत्य कथितं राज्ञो, राजाऽपि स्वयमेत्य तम् । धरणेन्द्रमुवाचाशु किं व्याषेधं करोषि भोः । ९ ॥ ३० ॥ अथाह धरणेन्द्रोऽपि राजन् ! गृह्णासि किं धनम् १ । निर्वीरायाः स्त्रिया अस्या, दयाहीनोऽसि किं नृप ! १ ॥३१॥ द्वितीयः परिच्छेदः तपसि नागकेतुकथा | ॥३३७७
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy