________________
द्वितीय: परिच्छेदः
चन्द्रप्रभस्वामि चरित्रम् ॥३३६॥
तपसि नागकेतुकथा।
राजा विजयसेनाख्यस्तत्रास्ति यस्य सेनया । उन्मूल्य द्विषतः क्षिप्ता, द्रुमा नद्येव पूर्णया ॥ ४॥ तत्र चास्ति वणिग्मुख्यः, श्रीकान्ताख्यः समृद्धिभाक् । श्रीसखी नाम तद्भार्या, पतिव्रता व्रतप्रिया ॥ ५ ॥ उपयाचितानां लक्षेस्तस्या जातः सुतः क्रमाव । बभूव च तथाऽऽसन्नं, पूज्यं पयुषणादिनम् ।। ६ ॥ करिष्यामोऽष्टमतपोऽत्रेति कुटुम्बभाषितम् । श्रुत्वा स बालको जातिस्मृत्या प्रत्यशृणोदिति ॥ ७॥ उपवासा मया कार्यास्त्रयः पेयं पयोऽपि न । इति निश्चित्य स स्तन्यं, न पिबति न रोदिति ।। ८॥ सास्र मात्रा ततः पत्युः, कथिते सोऽप्यचीकरत् । बाले चिकित्सावेदिभ्य, उपचारान् बहूनपि ॥३॥ ततोऽपि नैष जग्राह, स्तन्यं कृततपोविधिः। ततश्च मृच्छया बालो, निश्चेष्टोऽभूत् क्रमात् क्रमात् ॥ १० ॥ मृच्छयाच्छन्नजीवं तं, मृतमिति धिया शिशुम् । न्यखनन् भुवि तद्वंश्या, निधानमिव दुर्लभम् ॥ ११ ।। __ इतश्चावधिना पश्यन् , धरणेन्द्रः शिशुह्यमुम् । अज्ञासीदस्य वृत्तान्तं, प्रारभ्य पूर्वजन्मनः ।। १२ ।। तथाह्ययं भवे पूर्वे, कस्यापि वणिजोऽभवत् । सुतत्वेन ततो माता, मृता बाल्येऽस्य दैवतः ॥ १३ ॥ अस्ति तस्य विमाता तु, विमानयति सापि तम् । भोजनादिषु स्तोके चापराधे क्रुध्यति स्फुटम् ॥१४॥ क्रमेण यौवनं प्राप्य, जानन्मानापमानताम । विमातुदुवैचांस्येष, कस्यापि च न्यवेदयत् ।। १५ ॥ तेनोचे चेत्तपः सम्यकृतं स्यात पूर्वजन्मनि । आत्मा पराभवस्थानं, कस्यापि स्यान्न तत्स्फुटम् ।। १६ ।। श्रत्वेति स यथाशक्ति तपश्चक्र विनीतवाक । मानापमानो सन्त्यज्य, लीनोऽभूत्तपसि स्वयम् ॥ १७ ॥