SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीयः परिच्छेदः ॥३३॥ तपसि नागकेतुकथा। वृद्धः प्राह प्रभोऽनेन, प्रोक्तमासीदिदं किल । यद्ग्रहीष्यामि तल्लोकप्रत्यक्षं नेष्यते गृहे ॥६६॥ तदेनं नायय क्षिप्रं, निश्रेणिं दोध तां गृहे । न्यायं पालयता राज्ञा, मन्त्री तत्कारितो बलात् ॥ ७० ॥ कुमारेण ततो राजा, सम्मान्य प्राभृतेन सः। विसृष्टोऽगानिज सौधं, लोकोऽन्योऽपि तथैव हि ॥ ७१॥ कुमारेण स वृद्धोऽपि, प्रेषितोऽभ्यच्ये वस्तुभिः । ज्ञातास्म्यहमनेनेति, श्रीकान्ताऽमर्षमादधौ ॥ ७२ ॥ दत्त्वा विषं कुमारं सा, मारयामास निष्कृपा । आसक्ता सचिवेऽथाभूच्छीकान्ता दुष्पतिव्रता ॥ ७३ ॥ दौःशील्यलौल्यविहितपतिमारणपापतः। प्राप्य दुःखं भवेऽत्रैव, श्रीकान्ता नरकं ययौ ॥ ७४॥ ततश्च येन लोकेऽस्मिनिन्दा स्यादात्मनश्चिरम् । तद्दौःशील्यं त्यजेद्विद्वानिच्छन् शाश्वतिकं सुखम् ॥ ७५ ॥ ॥ इति वौःशील्ये श्रीकान्ताकथा॥ + ॥अथ तपसि नागकेतुकथा ॥ न नीचैजन्म स्यात प्रभवति न रोगव्यतिकरो, न चाप्यज्ञानत्वं विलसति न दारिद्रयललितम् । पराभूतिनं स्यात् किमपि न दुरापं किल यतस्तदेवेष्टप्राप्तौ कुरुत निजशक्त्यापि सुतपः॥१॥ तपःप्रभावाज्जन्तूनां, जायते किल शाश्वतम् । निर्वाणपदमाश्वेव, नागकेतोरिव ध्रुवम् ॥ २॥ अस्ति पूश्चन्द्रकान्ताख्या, यत्र चन्द्रोदये सति । चन्द्रकान्तगृहप्रोद्यत्सुधास्नानसुखी जनः॥३॥ ॥३३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy