________________
चन्द्रप्रमस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥३३४॥
दौःशील्ये श्रीकान्ताकथा।
मा भैषीरिति वृद्धेन, सम्यगङ्गीकृते ततः । कुमारः प्राप च स्वास्थ्यं, का भी(मति रक्षके ? ॥ ५५॥ उत्सुकः प्राह मन्त्री च, राजन् ! किं नु विलम्ब्यते। आदिदेश ततो राजा, कुमार त्वर्यतामिति ॥ ५६ ॥ यदादिशति मे स्वामीत्युक्त्वा वृद्धेन सोऽन्वितः । यद्रोचते तदभ्येत्य, गृहीतेत्याह मन्त्रिणम् ॥ ५७ ॥ सपौरलोकं राजानमादाय मन्त्रिराट् मुदा । ययौ कुमारगेहेऽथ, श्रीकान्तासक्तमानसः ॥ ५० ॥ श्रीकान्ता मुमुदे तत्रोपागतं वीक्ष्य मन्त्रिणम् । ज्ञात्वा वृद्धश्च तद्भावं, श्रीकान्तामित्यभाषत ॥ ५ ॥ वत्से! रोदिति ते पुत्रस्तदादायैनमोकसः । ऊध्र्वभूमौ क्षणं तिष्ठ, यावद्याति महीपतिः ॥ ६॥ ततः कुमारानुमता, श्रीकान्तोर्ध्वगृहे ययौ । मुमोचान्यत्र निश्रेणिं, वृद्धो बुद्धिसमृद्धिभाक् ॥ ६१ ॥ आसीने सजने राज्ञि, कुमारो वस्तुवेश्मनि । सर्व चादर्शयत् किन्तु, मन्त्री किमपि नाग्रहीत् ॥ ६२ ।। केवलं वीक्षते तां स. श्रीकान्ता भ्रान्तया दृशा । पुरो रत्नसुवर्णादि, न मन्त्री द्रष्टुमिच्छति ॥ ६३ ॥ ज्ञात्वा कुतोऽपि गेहो भूमिस्थां तां स मन्त्रिराट् । प्राह दृष्टमधो वस्तु, पश्याम्युपर्यपि स्वयम् ॥ ६४ ॥ श्रीकान्ताग्रहणौत्सुक्याद्दोभ्यो निश्रेणिमादधत् । अधिरोद्प्रवृत्तश्च, प्रोक्तो वृद्धेन मन्त्रिराट् ॥ ६५॥ किं करिष्यसि भो ! मन्त्रिन्नारुह्योर्ध्व भुवं यतः । द्वाभ्यां दो| प्राग यद्ग्राह्य, सा निश्रेणिस्तवाभवत् ॥ ६६ ॥ नान्यल्लभ्यं त्वया छत्र, यदि पत्रप्रमाणता । द्वाभ्यां दोभ्यां यदात्तं, तदग्राह्य तत्रेति निणेयः ।। ६७ ॥ श्रीकान्ता स जिघृक्षुश्च, वदन्नुच्चावचान्यथ । निषिद्धो भृभुजा पत्रप्रामाण्यात् सचिवस्ततः ॥ ६८ ॥
॥३३४॥