SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीयः परिच्छेदः ॥३३३॥ दौःशील्ये श्रीकान्ताकथा। मन्त्र्यभिप्रायस्याऽविज्ञः, कुमारः प्रेषयनरम् । आनेतुं तानि बीजानि, श्रीकान्तां सोप्ययाचत ॥ ४१ ॥ साऽन्यबीजानि निक्षिप्य, ग्रन्थिबद्धं तथैव तम् । नरायार्पयदेषोऽपि, कुमारायार्पयद्रुतम् ॥ ४२ ॥ ततश्चास्थानशालायां, निक्षेप्य मृत्तिका भुवि । क्षिप्त्वा बीजानि तत्रैष, सिषिच स्वादुभिर्जलैः ॥ ४३ ॥ राज्ञि लोके च सौत्सुक्यं, पश्यति द्रतमेव सः। उपयकारयवंशमण्डपं विस्तृतिप्रदम् ॥४४॥ आस्तामुद्गम्य विस्तारोऽभूदङ्कुरोद्गमोऽपि न । नोच्छ्वासोऽपि मृदः क्वापि, यतो वीजविपर्ययः ॥ ४५ ॥ भूयो भूयः कुमारोऽथ, सिञ्चते वीक्षतेऽभितः। अङ्क्रमपि न क्वापि, पश्यन्नासीद्विलक्ष्यवाक् ॥ ४६॥ राजन् ! पश्य कुमारस्य, सत्यतामिति मन्त्रिणा । प्रोक्ते जहास राजाऽथ, लोकोऽपि दत्ततालिकः ॥ ४७॥ कथं नु नोद्गतानीह, द्राक्षावीजानि तान्यपि ।। इति विस्मयमापन्ने, कुमारे सचिवोऽब्रवीत् ॥४८॥ राजन् ! पत्रप्रमाणेन, हस्तग्राह्य गृहेऽस्य यत् । तन्मे दापय यल्लोकप्रत्यक्षं स्वगृहं नये ॥ ४६ ॥ सचिवोक्त्यनुसारेण, कुमारोऽथाविदत्त्विदम् । मत्कान्तायामसौ लुब्धस्तामेवाभिलपत्यतः ॥ ५॥ अनेन प्रार्थिता मन्ये, चक्रे बीजविपर्ययम् । श्रीकान्तैव सुरक्ताऽस्मिन् , बीजानि नोद्गतान्यतः ।। ५१ ॥ धिर धिग्मां येन तिस्रोऽपि, वृद्धशिक्षा हि विस्मृताः। सत्येनानुभवो मेऽभूदकृते वृद्धभाषिते ॥ ५२ ॥ ततोऽधुनैव तं वृद्धमाहूय प्रश्नयाम्यहम् । यथा मन्त्री न मे कान्तां, गृह्णाति छललाभतः ॥ ५३॥ इत्यसौ मानुषं किञ्चित् , प्रहित्याकारयच्च तम् । न्यवेदयच्च तं तस्मै, मन्त्रिवृत्तान्तमात्मना ॥ ५४॥ |॥३३३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy