________________
चन्द्रप्रभस्वामि
चरित्रम्
॥३३२॥
,
कुमारोऽपि महाकष्टात् प्राप्तं गतं च वीक्ष्य तत् । पूर्वार्जितानि कर्माणि, बलवन्तीत्यमन्यत ॥ २७ ॥ आगाद्गृहे च यद्वस्तु, श्रीकान्तायै तदार्पयत् । किञ्चिद्रढप्रहारचा भूद्राजदर्शनोन्मनाः ॥ २८ ॥ प्राभृतं किञ्चिदादाय स ययौ नृपसंसदि । कृतप्रणामश्वोचितस्थाने पुर उपाविशत् ॥ २६ ॥ राज्ञा पृष्टः कुमारः स्वं यथावृत्तं व्यजिज्ञपत् । अथाह राजा किश्विद्धो !, दृष्टं देशेषु कौतुकम् १ || ३० ॥ कुमारः प्राह नाथैकं, दृष्टवानस्मि कौतुकम् । द्राक्षा यदैव चोप्यन्ते, तत्कालं च फलन्त्यम्रः ॥ ३१ ॥ मन्त्री कूटप्रपञ्चाख्यः, कुमारभार्यया सह । क्रीडत्युपपतित्वेन नित्यं तद्रक्तमानसः ॥ ३२ ॥ एनं विजित्य चेदेनां गृह्ण े तच्चारु मे भवेत् । दुष्टोऽमिलापत्रान् प्राह, मिथ्याऽयं भाषते वणिक् ॥ ३३ ॥ कुत्राप्येतद्भवेद्राजन्!, बीजान्युप्तानि तत्क्षणात् । उद्गच्छन्ति विस्तृणन्ति, पुष्यन्ति च फलन्ति च ॥ ३४ ॥ राजा प्राह कुमार ! त्वं ब्रूषे दृष्टं श्रुतं नु वा १ । स प्राह तन्मया दृष्टमनुभूतं च भूपते ! ॥ ३५ ॥ बीजानि नित्यशो मार्गेऽप्युप्त्वाऽकार्षं हि भोजनम् । एषु विस्तृतच्छायेषु ततोऽस्त्राप्यं फलान्यदन् || ३६ || सहानीतानि बीजानि, सन्ति मुक्तानि वेश्मनि । दर्शयिष्यामि दृष्टान्तं, कार्यो नैवात्र संशयः ॥ ३७ ॥ अथाह मन्त्री चेद्राजन् !, स्वां सन्धां पूरयेदयम् । यत्प्राग्गृहीतं तद्दोर्भ्यां द्वाभ्यां ग्राह्य ं हि मद्गृहात् ॥ २८ ॥ अन्यथा तु मया ग्राह्यमिष्टं वस्त्वस्य मन्दिरात् । ततश्वोभयसाम्मत्यात्पत्रम लेखयन्नृपः ॥ ३६ ॥ मन्त्री प्रच्छन्नपुरुषाच्छ्रीकान्तापार्श्वतः क्षणात् । व्यत्ययात्तानि बीजानि, तदैवानाययत्ततः ॥ ४० ॥
द्वितीयः
परिच्छेदः
दौः शील्ये
श्रीकान्ता
कथा ।
॥३३२॥