SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीयः परिच्छेदः ॥३३॥ दौःशील्ये श्रीकान्ताकथा। पुरे प्रविशता शुद्धिः, प्रष्टव्या न स्ववेश्मनः । पश्चात्त्यक्त्वा त्वया पण्यं, प्रवेष्टव्यं पुरे नहि ॥ १३ ।। न विश्वासः कलत्रे च, कार्योऽथेति मतित्रयम् । कुर्यास्त्वं किश्चिद्दुःसाध्ये, त्वमागच्छेमंदन्तिकम् ॥ १४ ॥ उपदिश्येति वृद्धोऽसौ, ययौ स्वं ग्राममेष तु । कुमारः स्वपुरोपान्तेऽद्राक्षीत परिचितं नरम् ॥ १५॥ कुटुम्बकौशलोत्कण्ठाज्ञातवृद्धवाग् द्रुतम् । तमुपसृत्य पप्रच्छ, गृहे.क्षेमोऽस्ति मासके १ ॥ १६ ॥ मृता माता त्वदीयेति, तेनोक्ते दुःखभागसौ । पश्चात्त्यक्त्वा च भाण्ड स्वमत्वरिष्ट गृहं प्रति ॥ १७॥ निशीथे स ययौ बद्धद्वारं सुप्तजनगृहम् । उच्चैः शब्दस्तितश्चक्र, जजागार न कोऽपि तु ॥१८॥ उपरि वाटकेनाप्यौत्सुक्यादेष चटनथ । स यामिकेन विज्ञात:, किनु चौरश्चटत्यसो १ ॥ १६ ॥ तेनाहतः स भल्लेन, कुमारोऽधः पपात च । सम्भ्रमाच जजागार, गृहलोकोऽखिलोऽपि हि ॥ २० ॥ वीक्ष्योपलक्षितः सोऽथ, कुटुम्बेनाश्रमोचिना। प्रहाराचापि पप्रच्छ, रोगो मातुर्वभूव का १॥ २१ ॥ सम्भ्रमाद्गृहलोकस्तं, प्रोचे किमेतदुच्यते १। सुप्ता माताऽस्ति गेहान्त स्या रोगः कदाप्यभूत् ॥ २२ ॥ केनापि कथिता माता, मृता तेनेत्युदीरिते । लोकः प्राह मृता कर्मकरी मातेति योच्यते ॥ २३ ॥ जागरित्वा ततो माता, ददत्याशिषमुच्चकैः। तमेत्यायतबाहुभ्यामाश्लिष्याङ्क न्यवेशयत् ।। २४ ॥ कुमारोऽपि समीक्ष्य स्वां, मातरं मुदमीयिवान् । यावदास्ते ततः कोऽपि, समेत्यैवमचीकथत् ॥ २५ ॥ पण्यं सर्व हि पाश्चात्यं, गृहीतं तस्करैबेलाद । किञ्चिदेतन्मयाऽऽनीतं, गृहीतेत्यार्पयत् पुमान् ॥ २६ ॥ | ॥३३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy